सामग्री पर जाएँ

मद्गुरः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मद्गुरः, पुं, (माद्यति जलं प्राप्य हृष्यतीति । मद् + “मद्गुरादयश्च ।” उणा० । १ । ४२ । इति उरच् निपातितश्च ।) मत्स्यविशेषः । इत्यमरः । १ । १० । १९ ॥ मागुर इति भाषा । (यथा । ललितविस्तरे । ३२० । ७ । “श्रमणो गौतमः श्यामको वत भो श्रमणो गौतमो मद्गुरच्छविः ।”) अस्य गुणाः । मधुरत्वम् । स्निग्धत्वम् । संग्रा- हित्वम् । शुक्लत्वम् । गुरुत्वञ्च । इति राज- वल्लभः ॥ (यथाच भावप्रकाशपूर्ब्बखण्डे द्वितीय- भागे । “मद्गुरो वातहृद्बल्यो वृष्यः कफकरो लघुः ॥” वर्णशङ्करजातितिशेषः । यथा, महाभारते । १३ । २५ । ८३ । “निषादं मुद्गुरं सूते दाशं नावोपजीविनम् ।” “मद्गून् मीनविशेषान् राति आदत्ते इति रा + कः । तम् ।” इति तट्टीकायां नीलकण्ठः ।)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मद्गुरः [madgurḥ], [मद् गुक् उरच् न्यङक्वा˚; cf. Uṇ.4.41]

A diver, pearl-fisher.

A kind of sheat-fish.

N. of a degraded mixed tribe; see मद्गु (5).

"https://sa.wiktionary.org/w/index.php?title=मद्गुरः&oldid=318935" इत्यस्माद् प्रतिप्राप्तम्