सामग्री पर जाएँ

मद्यम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मद्यम्, क्ली, (माद्यति जनोऽनेन । मद् + “गदमद- यमश्चानुपसर्गे ।” ३ । १ । १०० । इति करणे यत् ।) सुरा । इत्यमरः । २ । १० । ४० ॥ (यथा, साहित्यदर्पणे । “भिक्षो ! मांसनिषेवणं प्रकुरुषे किं तेन मद्यं विना मद्यञ्चापि तव प्रियं प्रियमहो वाराङ्गनाभिः सह । वेश्याप्यर्थरुचिः कुतस्तव धनं द्यूतेन चौर्य्येण बा, एतावानपि संग्रहोऽस्ति भवतो नष्टस्य कान्या गतिः ॥”) अस्य गुणपर्य्यायौ मदिराशब्दे द्रष्टव्यौ ॥ * ॥ तत् द्वादशविधं यथा पुलस्त्यः । “पानसं द्राक्षमाधूकं खार्ज्जूरं तालमैक्षवम् । माध्वीकं टाङ्कमाध्वीकं मैरेयं नारिकेलजम् ॥ समानानि विजानीयान्मद्यान्येकादशैव तु । द्वादशस्तु सुरा मद्यं सर्व्वेषामधमं स्मृतम् ॥” अनेन एकादशानां सुरात्वं निषेधयति मद्यशब्दो मदहेतुद्रव्यवचनः । अस्मादेव वचनात् नतु मद्यमात्रं सुराशब्दार्थः । यथा बृहस्पतिः । “गौडीं माध्वीं सुरां पैष्टीं पीत्वा विप्रः समा- चरेत् । सोन्मादमदमूर्च्छायाः सापस्मारापतानकाः ॥ यत्रैकः स्मृतिविभ्रंशस्तत्र सर्व्वमसाधु यत् । अयुक्तियुक्तमन्नं हि व्याधये मरणाय वा ॥ मद्यं त्रिवर्गधीधैर्य्यलज्जादेरपि नाशनम् । नाति माद्यन्ति बलिनः कृताहारा महाशनाः ॥ स्निग्धाः सत्त्ववयोयुक्ता मद्यनित्यास्तदन्वयाः । मेदःकफाधिकामन्दवातपित्ता दृढाग्नयः ॥ विपर्य्ययेऽतिमाद्यन्ति विश्रध्वाः कुपिताश्च ये । मद्येन चाम्लरूपेण साजीर्णे बहु नाति च ॥” इति वाभटे निदानस्थाने षष्ठेऽध्याये ॥) एतानि श्रुतिस्मृतिविरुद्धत्वान्मोहनार्थानिशिष्टैः कदाचिदपि नाचरणीयानि ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

--Liquor: Brahmanas forbidden to take it: प्रायस्चित्त for it: used in the worship of the mother goddess and the शक्तिस्. Br. IV. 7. ६६, ७३-6; 8. ४१.

"https://sa.wiktionary.org/w/index.php?title=मद्यम्&oldid=434616" इत्यस्माद् प्रतिप्राप्तम्