मधुकरः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मधुकरः, पुं, (करोति सञ्चिनोतीति । कृ + अच् । मधुनः करः ।) भ्रमरः । इत्यमरः । २ । ५ । २९ ॥ (यथा, श्रीमद्भागवते । ४ । १८ । २ । “सर्व्वतः सारमादत्ते यथा मधुकरो बुधः ॥”) कामी । इति धरणिः ॥ भृङ्गराजवृक्षः । इति शब्दमाला ॥
