सामग्री पर जाएँ

मधुकैटभौ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मधुकैटभौ, पुं, (मधुश्च कैटभश्च तौ । इतरेतर- द्वन्द्वः ।) असुरविशेषौ । तयोरुत्पत्त्यादि यथा, “दैनन्दिने तु प्रलये प्रसुप्ते गरुडध्वजे । तस्य श्रवणविड्जातावसुरौ मधुकैटभौ ॥ कूर्म्मपृष्ठगता पृथ्वी विलीनेवाभवज्जलैः । तां विशीर्णां योगनिद्रा महामाया व्यलोकयत् ॥ तां वै दृढतरां कर्त्तुं पृथ्वीं प्रति तदेश्वरी । उपायं चिन्तयामास कथं पृथ्वी भवेद्दृढा ॥ इदानीमाज्यवत् पृथ्वी प्रवृत्ता कोमला जलैः । सृष्टिकाले जनान् वोढुं कथं शक्ता भविष्यति ॥ इति सञ्चिन्त्य सा माता जगतां सृष्टिकारिणी । उपगम्य तदा विष्णुमाससाद सुनिद्रितम् ॥ तन्तु सुप्तं समासाद्य जगन्नाथं जगत्पतिम् । वामहस्तकनिष्ठाग्रं तस्य कर्णे न्यवेशयत् ॥ निवेश्य नखराग्रेण प्रोद्धृत्य श्रावणं मलम् । चूर्णीचकार सा देबी योगनिद्रा जगत्प्रसूः ॥ तत्कर्णमलचूर्णेभ्यो मधुनामासुरोऽभवत् । ततो दक्षिणहस्तस्य कनिष्ठाग्रन्तु दक्षिणे ॥ कर्णे न्यवेशवद्देवी तस्मादप्युद्धृतं मलम् । तच्चापि क्षोदयामास करशाखाग्रजेन तु ॥ ततोऽभूत् कैटभो नाम बलवानसुरो महान् ॥ उत्पन्नः स च पानार्थं यस्मान् मृगितवान्मधु । अतस्तस्य महादेवी मधुनामाकरोत्तदा ॥ उत्पन्नः कीटवद्भाति महामायाकरे यतः । अतस्तं कैटभाख्यन्तु स्वयं देवी तदाकरोत् ॥ ताबुवाच महामाया युध्यतां हरिणा सह । युवानौ श्रद्धयैवात्र भवन्तौ निहनिष्यति ॥ यदा युवां प्रभाषेथे आवां विष्णो ! वधान तौ । तदैवायं युवां हन्ता नान्यथा हरिरप्यथ ॥ महामायामोहितौ तौ विष्णुगात्रे तदा मुहुः । वामे स्वजघने यत्नादारोप्य शिरसी तयोः । जगदाधारभूतः स सर्व्वयत्नेन संयुतः ॥ सर्व्वैर्बलैः समाक्रम्य चिच्छेद स पृथक् पृथक् । मधुकैटभयोः सम्यक् वीरयोः पृथिवीमृते ॥ तस्य चाक्रम्य संस्थानाद्ब्रह्मशक्तिरधोगता । ध्रियमाणापि देवौघैर्यत्नादपि मुहुर्मुहुः ॥ ततस्तयोस्तु मृतयोः शरीरे जगतां पतिः । ब्रह्मशक्तिं समुद्धृत्य न्यधात्तस्यां प्रयत्नतः । उद्धृतायां पृथिव्यान्तु तयोर्म्मेदोविलेपनैः । सुदृढामकरोत् पृथ्वीं क्लेदितां तोयराशिभिः ॥ मेदोविलेपिता यस्माद् गीयते मेदिनीति सा । अद्यापि पृथिवी देवी देवमानुषराक्षसैः ॥” इति कालिकापुराणे ६१ अध्यायः ॥ (अनयोर्नामनिरुक्तिर्यथा, महाभारते । १२ । ३४७ । २४ -- २६ । “सत्त्वस्थः परमेष्ठी स ततो भूतगणान् सृजन् । पूर्ब्बमेव च पद्मस्य पत्रे सूर्य्यांशुसप्रभे ॥ नारायणकृतौ बिन्दू अपामास्तां गुणोत्तरौ । तावपश्यत् स भगवाननादिनिधनोऽच्युतः ॥ एकस्तत्राभवद्विन्दुर्म्मध्वाभो रुचिरप्रभः । स तामसो मधुर्जातस्तदा नारायणाज्ञया । कठिनस्त्वपरो बिन्दुः कैटभो राजसस्तु सः ॥”)

"https://sa.wiktionary.org/w/index.php?title=मधुकैटभौ&oldid=155814" इत्यस्माद् प्रतिप्राप्तम्