मधुधेनुः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मधुधेनुः, स्त्री, (मधुरचिता धेनुः ।) दानार्थ- मध्वादिनिर्म्मितसवत्सा गौः । यथा, -- होतोवाच । “मधुधेनुं प्रवक्ष्यामि सर्व्वपातकनाशिनीम् । अनुलिप्ते महीपृष्ठे कृष्णाजिनकुशोत्तरे ॥ धेनुं मधुमयीं कृत्वा संपूर्णां घटषोडशीम् । चतुर्थेन तथांशेन वत्सकं परिकल्पयेत् ॥ सौवर्णन्तु मुखं कृत्वा शृङ्गाण्यगुरुचन्दनैः । पृष्ठं ताम्रमयं कृत्वा सास्नां पट्टमयीं तथा ॥ पदानिक्षुमयान् कृत्वा सितकम्बलकम्बलाम् । मुखं गुडमयं कृत्वा जिह्वां शर्करया तथा । ओष्ठौ पुष्पमयौ तस्या दन्ताः फलमयाः स्मृताः । दर्भरोमधरा देवी रौप्यक्षुरविभूषिता ॥ प्रशस्तपत्रश्रवणा प्रमाणात् परितस्ततः । सर्व्वलक्षणसंयुक्ता सप्तधान्यान्विता तथा ॥ चत्वारि तिलपात्राणि चतुर्द्दिक्ष्वपि स्थापयेत् । छादितां वस्त्रयुग्मेन घण्टाभरणभूषिताम् । कांस्योपदोहनां कृत्वा गन्धपुष्पैस्तु धूपिताम् ॥ अयने विषुवे पुण्ये व्यतीपाते दिनक्षये । संक्रान्त्यामुपरागे च सर्व्वकालं यदृच्छया ॥ द्रव्यब्राह्मणसम्पत्तिं दृष्ट्वा तान्तु प्रदापयेत् । ब्राह्मणाय दरिद्राय श्रोत्रियायाहिताग्नये ॥ आर्य्यावर्त्ते समुत्पन्ने वेदवेदाङ्गपारगे । तादृशाय प्रदातव्या मधुधेनुर्नरोत्तम ! ॥ पुच्छदेशोपविष्टस्तु गन्धधूपादिपूजिताम् ॥ आच्छाद्य वस्त्रयुग्मेन मुद्रिकाकर्णपत्रकैः ॥ स्वशक्त्या दक्षिणां दत्त्वा वित्तशाठ्यविवर्जितः । जलपूर्ब्बन्तु कर्त्तव्यं पश्चाद्दानं समर्पयेत् ॥ रसज्ञा सर्व्वदेवानां सर्व्वभूतहिते रता । प्रीयन्तां पितृदेवाश्च मधुधेनो ! नमोऽस्तु ते ॥ एवमुच्चार्य्य तां धेनुं ब्राह्मणाय निवेदयेत् ॥ अहं गृह्णामि त्वां देवि ! कुटुम्बार्थे विशेषतः । कामं कामदुघे कामां मधुयेनो ! नमोऽस्तु ते ॥ मधुवातेतिमन्त्रेण दद्यादाशु त्रिकेण तु । दत्त्वा धेनुं महाराज ! छत्रकोपानहौ तथा ॥ एवं यः कुरुते भक्त्या मधुधेनुं नराधिप ! । दत्त्वा दानं पायसेन मधुना च दिनं नयेत् ॥ ब्राह्मणोऽपि त्रिरात्रन्तु मधुपायससंयुतम् । एवं कृते तु यत् पुण्यं तन्निबोध नराधिप ! ॥ यत्र नद्यो मधुवहा यत्र पायसकर्द्दमाः । ऋषयो मुनयः सिद्धास्तत्र गच्छन्ति धेनुदाः ॥ तत्र भोगानथो भुङ्क्ते ब्रह्मलोके स तिष्ठति । क्रीडित्वा सुचिरं कालं पुनर्मर्त्त्यमुपागतः । स भुक्त्वा विपुलान् भोगान् विष्णुलोकं स गच्छति ॥ दशपूर्ब्बान् दशपरानात्मानञ्चैकविंशतिम् । नयते विष्णुसायुज्यं मधुधेनुप्रसादतः ॥ य इदं शृणुयाद्भक्त्या श्रावयेद्वापि मानवः । सर्व्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ॥” इत्यादि वराहपुराणे श्वेतोपाख्याने मधु- धेनुमाहात्म्यम् ॥
