मधुपः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मधुपः, पुं, (मधु पिबतीति । पा + कः ।) भ्रमरः । इत्यमरः । २ । ५ । २९ ॥ (यथा, राजतर- ङ्गिण्याम् । ३ । ४०९ । “गव्व्यूतिमात्रमासन्ने देवीधामनि धैर्य्यवान् । धुन्बन् कराभ्यां मधुपान् धावति स्म स धीरधीः ॥” मधु जलं पातीति । पा + कः । वारिरक्षके, त्रि । यथा, ऋग्वेदे । ५ । ३२ । ८ । “त्यं चिदर्णं मधुपं शयानमसिन्वं वव्रं मह्या- ददुग्रः ।” “मधुपं मधुनोऽम्भसः पातारं पालयितारम् ।” इति तद्भाष्ये सायनः ॥ मधुपानकर्त्तरि च, त्रि । यथा, ऋग्वेदे । १ । १८० । २ । “स्वसा यद्वां विश्वगूर्त्तीभराति वाजायेट्टे मधु- पाविषे च ।” “हे मधुपौ मधुरस्य सोमरसस्य पातारौ ।” इति तद्भाष्ये सायनः ॥)
