मधुपर्कः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मधुपर्कः, पुं, (पृची + घञ् । मधुना पर्कः सम्पर्को यस्य मधुना संयोजनात् तथात्वम् ।) षोडशोपचारपूजान्तर्गतषष्ठोपचारः । तस्य प्रमाणं यथा, -- “दधि सर्पिर्ज्जलं क्षौद्रं सितैताभिस्तु पञ्चभिः । प्रोच्यते मधुपर्कस्तु सर्व्वदेवौघतुष्टये ॥ जलन्तु सर्व्वतः स्वल्पं सिता दधि घृतं समम् । सर्व्वेषामधिकं क्षौद्रं मधुपर्के प्रयोजयेत् ॥ तद्दद्यात् कांस्यपात्रेण रौक्मश्वेतभवेन वा । ज्योतिष्टोमाश्वमेधादौ पूर्त्ते चेष्टे प्रपूजने ॥ मधुपर्कः प्रतिष्ठोऽयं सर्व्वदेवौघतुष्टिदः । धर्म्मार्थकाममोक्षाणां साधकः परिकीर्त्तितः ॥ मधुपर्कः सौख्यभोग्यतुष्टिपुष्टिप्रदायकः ॥” इति कालिकापुराणे ६७ अध्यायः ॥ अपि च । “आज्यं दधिमधुमिश्रं मधुपर्कं विदुर्ब्बुधाः ॥” इति तन्त्रसारः ॥ तद्दाने मुद्रा यथा, -- “संयुक्तानामिकाङ्गुष्ठा तिस्रोऽन्याः संप्र- सारिताः । मधुपर्के च सा मुद्रा विद्बद्भिः परिकीर्त्तिता ॥” इति हरिभक्तिविलासः ॥
