मधुपर्णिका
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मधुपर्णिका, स्त्री, (मध्विव हितं पर्णमस्याः । ततः स्वार्थे कन् टाप् । अत इत्वञ्च ।) गम्भारीवृक्षः । (अस्याः पर्य्यायो यथा, -- “गम्भारी भद्रपर्णी च श्रीपर्णी मधुपर्णिका । काश्मीरी काश्मरी हीरा काश्मर्य्यः पीत- रोहिणी ॥ कृष्णवृन्ता मधुरसा महाकुसुमिकापि च ॥”) नीलीवृक्षः । इत्यमरः । २ । ४ । ३५ ॥ (अस्याः पर्य्यायो यथा, -- “नीली तु नीलिनी तूली कालदोला च नीलिका । रञ्जनी श्रीफली तुच्छा ग्रामीणा मधुपर्णिका ॥ क्लीतका कालकेशी च नीलपुष्पा च सा स्मृता ॥”) वराहक्रान्ता । इति शब्दचन्द्रिका ॥ गुडूची । सुदर्शना । इति राजनिर्घण्टः ॥ (यथा, सुश्रुते शारीरस्थाने १० अध्याये । “पृश्निपर्णी बलाशिग्रुश्वद्रंष्टा मधुपर्णिका ॥” अस्याः पर्य्यायो यथा, -- “सुदर्शना सोमवल्ली चक्राह्वा मधुपर्णिका ।” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
अमरकोशः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मधुपर्णिका स्त्री।
काश्मरीवृक्षः
समानार्थक:गम्भारी,सर्वतोभद्रा,काश्मरी,मधुपर्णिका,श्रीपर्णी,भद्रपर्णी,काश्मर्य
2।4।35।2।4
राजादनं प्रियालः स्यात्सन्नकद्रुर्धनुःपटः। गम्भारी सर्वतोभद्रा काश्मरी मधुपर्णिका॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः
मधुपर्णिका स्त्री।
नीली
समानार्थक:नीली,काला,क्लीतकिका,ग्रामीणा,मधुपर्णिका,रञ्जनी,श्रीफली,तुत्था,द्रोणी,दोला,नीलिनी
2।4।94।2।5
प्रचोदनी कुली क्षुद्रा दुःस्पर्शा राष्ट्रिकेत्यपि। नीली काला क्लीतकिका ग्रामीणा मधुपर्णिका॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मधुपर्णिका¦ f. (-का)
1. The indigo plant.
2. A tree, (Gmelina arborea.)
3. Moon plant, (Asclepias acida.)
4. A creeper of the Cryptogamia class, (Lycopodium imbricatum, Rox.)
5. A shrub, (Menispermum.) E. मधु honey, पर्ण a leaf, aff. कन्, fem. form; also मधुपर्णी |
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मधुपर्णिका/ मधु--पर्णिका f. N. of various plants Sus3r. Bhpr. (Gmelina Arborea , Indigofera Tinctoria etc. L. )