मधुपुष्पः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मधुपुष्पः, पुं, (मधुप्रचुराणि पुष्पाण्यस्य ।) मधु- द्रुमः । इति रत्नमाला ॥ (मधूकः । तत्पर्य्यायो यथा, भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ।) “मधूको गुडपुष्पः स्यान्मधुपुष्पो मधुस्रवः । वानप्रस्थो मधुष्ठीलो जलजेऽत्र मधूलकः ॥”) शिरीषवृक्षः । अशोकवृक्षः । वकुलवृक्षः । इति राजनिर्घण्टः ॥
