सामग्री पर जाएँ

मधुमस्तकम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मधुमस्तकम्, क्ली, (मधुर्मधुररसः मस्तके उपरि- भागे यस्य ।) पिष्टकविशेषः । यथा, -- “मधुतैलघृतैर्मध्ये वेष्टिताः समिताश्च याः । मधुमस्तकमुद्दिष्टं तस्याख्यापरिमार्जनम् ॥” इति शब्दचन्द्रिका ॥ अस्य गुणाः पिष्टशब्दे द्रष्टव्याः ॥

"https://sa.wiktionary.org/w/index.php?title=मधुमस्तकम्&oldid=155894" इत्यस्माद् प्रतिप्राप्तम्