मधुरः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मधुरः, पुं, (मधु माधुर्य्यं रातीति । रा + कः । यद्वा, मधुमाधुर्य्यमस्यास्तीति । “ऊषसुषिमुष्क- मधो रः ।” ५ । २ । १०७ । इति रः ।) मिष्टरसः । इत्यमरः । १ । ५ । ९ ॥ स च इक्ष्वादौ लक्ष्यते । तत्पर्य्यायः । गौल्यः २ । इति राजनिर्घण्टः ॥ रसज्येष्ठः ३ गुल्यः ४ स्वादुः ५ मधूलकः ६ । इति हेमचन्द्रः । ६ । २४ ॥ तस्य गुणाः । प्रीणनत्वम् । बल्यत्वम् । बृंहणत्वम् । वायुपित्तनाशित्वम् । रसायनत्वम् । गुरुत्वम् । स्निग्धत्वम् । चक्षुष्य- त्वम् । तर्पणत्वम् । सरत्वञ्च । अन्यच्च । “रसो मधुरकः शीतो धातुस्तन्यबलप्रदः । चक्षुष्यो वातपित्तघ्नः कुर्य्यात् स्थौल्यकफक्रमीन् ॥ सोऽतियुक्तो ज्वरश्वासगलगण्डादिरोगकृत् ॥” इति राजवल्लभः ॥ अपि च । “मधुरस्तु रसश्चिनोति केशान् बपुषः स्थैर्य्यबलौजोवीर्य्यदायी । अतिसेव्रनतः प्रमेहशैत्य- जडतामान्द्यमुखान् करोति दोषान् ॥” इति राजनिर्घण्टः ॥ (यथा च वाभटे सूत्रस्थाने दशमेऽध्याये ॥ “रसानामिति रूपाणि कर्म्माणि मधुरो रसः । आजन्मसात्म्यात् कुरुते धातूनां प्रबलं बलम् । बालवृद्धक्षतक्षीणवर्णकेशेन्द्रियौजसाम् ॥ प्रशस्तो बृंहणो कण्ठ्यः स्तन्यसन्धानकृद्गुरुः । आयुष्यो जीवनः स्निग्धः पित्तानिलविषापहः ॥ कुरुतेऽत्यु पयोगेन समेदःकफजान् गदान् । स्थौल्याग्निसादसंन्यासमेहगण्डार्व्वुदादिकान् ॥” अपिच । “तत्र मधुरो रसः शरीरसात्म्याद्रसरुधिरमांस- मेदोऽस्थिमज्जौजः शुक्राभिवर्द्धन आयुष्यः षडि- न्द्रियप्रसादनो बलवर्णकरः पित्तविषमारुतघ्न- स्तृष्णाप्रशमनः त्वच्यः केश्यः कण्ठ्यः प्रीणनो जीवनस्तर्पणः स्नेहनः स्थैर्य्यकरः क्षीणक्षत- सन्धानकरः घ्राणमुखकण्ठोष्ठतालुप्रह्लादनो दाहमूर्च्छाप्रशमनः षट्पदपिपीलिकाना- मिष्टतमः स्निग्धः शीतो गुरुश्च । स एवंगुणोऽप्येक एवात्यर्थमुपयुज्यमानः स्थौल्यं मार्द्दवमालस्यमतिस्वप्नं गौरवमनन्नाभिलाष- मग्नेर्द्दोबल्यमास्यकण्ठमांसाभिवृद्धिं श्वासकास- प्रतिश्यायालसकशीतज्वरानाहास्यमाधुर्य्यव- मथुसंज्ञास्वरप्रणाशगलगण्डमालाश्लीपदगल- शोफवस्तिधमनीगुदोपलेपाक्ष्यामयानभिष्य- मित्येवंप्रभृतीन् कफजान् विकारानुपजनयन्ति । “स्नेहनप्रीणनाह्लादमार्द्दवैरुपलभ्यते । मुखस्थो मधुरश्चास्यं व्याप्नुव~ल्लिम्पतीव च ॥” इति चरके सूत्रस्थाने २६ अध्याये ॥) जीवकः । रक्तशिग्रुः । राजाम्रः । रक्तेक्षुः । गुडः । शालिः । इति च राजनिर्घण्टः ॥ (बीजपूरविशेषः । तत्पर्य्यायो यथा, -- “बीजपूरोऽपरः प्रोक्तो मधुरो मधुकर्कटी ।” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥ स्कन्दस्यसैनिकभेदः । यथा महाभारते । ९ । ४५ । ६९ । “मधुरः सुप्रसादश्च किरीटी च महाबलः ॥”)
मधुरः, त्रि, (मधु माधुर्य्यमस्यास्तीति । “ऊषसुषि- मुष्कमधो रः ।” ५ । २ । १०७ । इति रः ।) मधुररसविशिष्टः । स्वादुः । (यथा, हितोप- देशे । १ । ७९ । “न धर्म्मशास्त्रं पठतीति कारणं न चापि वेदाध्ययनं दुरात्मनः । स्वभाव एवात्र तथातिरिच्यते यथा प्रकृत्या मधुरं गवां पयः ॥”) प्रियः । इति मेदिनी । रे, १९५ ॥ पारि- भाषिकमधुराणि यथा । विदग्धोक्तिः । प्रिया- धरकुचादिः । शशी । स्त्रियः । बालोक्तिः । इति कविकल्पलता ॥
