मधुरसा
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मधुरसा, स्त्री, (मधुर्मधुरो रसो यस्याः ।) मूर्व्वा । इत्यमरः । २ । ४ । ८३ ॥ (अस्याः पर्य्यायो यथा, “तेजनी पिलुनी देवी तिक्तवल्ली पृथक्त्वचा । मधुश्रेणी मधुरसा मूर्व्वा निर्द्दहनीति च ॥” इति वैद्यकरत्नमालायाम् ॥ “मूर्व्वा मधुरसा देवी मोरटा तेजनी स्रुवा । मधूलिका मधुश्रेणी गोकर्णी पीलुपर्ण्यपि ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) द्राक्षा ॥ (तत्पर्य्यायो यथा, -- “द्राक्षा स्वादुफला प्रोक्ता तथा मधुरसापि च । मृद्वीका हारहूरा च गोस्तनी चापि कीर्त्तिता ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) दुग्धिका । इति मेदिनी । से, ६० ॥ गम्भारी । इति भावप्रकाशः ॥
अमरकोशः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मधुरसा स्त्री।
मूर्वा
समानार्थक:मूर्वा,देवी,मधुरसा,मोरटा,तेजनी,स्रवा,मधूलिका,मधुश्रेणी,गोकर्णी,पीलुपर्णी
2।4।83।2।3
जीवन्तिका सोमवल्ली विशल्या मधुपर्ण्यपि। मूर्वा देवी मधुरसा मोरटा तेजनी स्रवा॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता
मधुरसा स्त्री।
द्राक्षा
समानार्थक:मृद्वीका,गोस्तनी,द्राक्षा,स्वाद्वी,मधुरसा
2।4।107।2।5
बला वाट्यालका घण्टारवा तु शणपुष्पिका। मृद्वीका गोस्तनी द्राक्षा स्वाद्वी मधुरसेति च॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मधुरसा/ मधु--रसा f. Sanseviera Roxburghiana Sus3r.
मधुरसा/ मधु--रसा f. Gmelina Arborea Bhpr.
मधुरसा/ मधु--रसा f. a vine , bunch of grapes L.
मधुरसा/ मधु--रसा f. a kind of Asclepias L.