सामग्री पर जाएँ

मधुव्रतः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मधुव्रतः, पुं, (मधु मधुसञ्चयो व्रतं व्रतमिव सत- तानुशीलनीयं यस्य । यद्बा, मधुव्रतयति नियतं भुङ्क्ते इति । व्रति + अण् ।) भ्रमरः । इत्य- मरः । २ । ५ । २९ ॥ (यथा, भागवते । ३ । २८ । २८ । “मालां मधुव्रतवरूथगिरोपघुष्टाम् ॥” मध्वर्थं व्रतं कर्म्म यस्य । उदकार्थकर्म्मणि, त्रि । यथा, ऋग्वेदे । ६ । ७० । ५ । “मधुनो द्यावापृथिवी मिमिक्षतां मधुश्चुता पधुदुघे मधुव्रते ॥” “मधुव्रते उदकार्थकर्म्माणौ ।” इति तद्भाष्पे सायनः ॥)

"https://sa.wiktionary.org/w/index.php?title=मधुव्रतः&oldid=155963" इत्यस्माद् प्रतिप्राप्तम्