सामग्री पर जाएँ

मधुष्ठीलः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मधुष्ठीलः, पुं, (मधु मकरन्दं ष्ठीवति निःक्षि- पतीति । ष्ठीव् + इगुपधत्वात् कः । पृषो- दरादित्वाद्वस्य लत्वम् ।) मधूकवृक्षः । इत्य- मरः । २ । ४ । २८ ॥ (अस्य पर्य्यायो यथा, -- “मधूको गुडपुष्पः स्यान्मधुपुष्पो मधुद्रुमः । वानप्रस्थो मधुष्ठीलो जलजेऽत्र मधूलकः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

"https://sa.wiktionary.org/w/index.php?title=मधुष्ठीलः&oldid=155974" इत्यस्माद् प्रतिप्राप्तम्