सामग्री पर जाएँ

मधुसूदनः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मधुसूदनः, पुं, (मधु पुष्परसं सूदयति भक्षय- तोति । सूद् + णिच् + ल्युः ।) भ्रमरः । इति जटाधरः ॥ (मधुं तन्नामानं असुरं सूद- यति नाशयतीति । सूद् + णिच् + ल्युः ।) श्रीकृष्णः । इत्यमरटीकायां भरतः ॥ (पक्षद्वये एकः श्लिष्टश्लोको यथा, छन्दोमञ्जर्य्याम् । ११ । ३ । “वनेषु कृत्वा सुरभिप्रचारं प्रकाममुग्धो मधुवासरेषु । गायन् कलं क्रीडति पद्मिनीषु मधूनि पीत्वा मधुसूदनोऽसौ ॥”) श्रीकृष्णपक्षे व्युत्पत्तिर्यथा, -- “सूदनं मधुदैत्यस्य यस्मात् स मधुसूदनः । इति सन्तो वदन्तीशं वेदैर्भिन्नार्थमीप्सितम् ॥ मधु क्लीवञ्च माध्वीके कृतकर्म्मशुभाशुभे । भक्तानां कर्म्मणाञ्चैव सूदनं मधुसूदनः ॥ परिणामाशुभं कर्म्म भ्रान्तानां मधुरं मधु । करोति सूदनं यो हि स एव मधुसूदनः ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ११० अध्यायः ॥ तस्य स्मरणफलम् । “महाविपत्तौ संसारे यः स्मरेन्मधुसूदनम् । विपत्तौ तस्य सम्पत्तिर्भवेदित्याह शङ्करः ॥” तत्रैव प्रकृतिखण्डे ३४ अध्यायः ॥ (सरस्वत्युपनामकः कविविशेषः । यथा, श्रीमद्- भगवद्गीताटीकायाम् । “व्याख्यातं भगवत्पदैः प्रतिपदं श्रीशङ्कराख्यैः पुनर्व्विस्पष्टं मधुसूद- नेन मुनिना स्वज्ञानसिद्ध्यै कृतम् ॥” अयं हि अद्वैतसिद्धिप्रस्थानभेदभगवद्गीताटीका- महिम्नस्तवटीकासिद्धान्तबिन्दुटीकाद्यनेकग्रन्थ- कर्त्ता ॥)

"https://sa.wiktionary.org/w/index.php?title=मधुसूदनः&oldid=155984" इत्यस्माद् प्रतिप्राप्तम्