मधुहा
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मधुहा, [न्] पुं, (मधुं तन्नामानमसुरं हन्तीति । हन् + क्विप् ।) विष्णुः । इति हेमचन्द्रः ॥ (मधु हन्तीति । हन् + क्विप् । मधुनाशके, त्रि । यथा, महाभारते । ३ । ३३ । ६८ । “सर्व्वथा संहतैरेव दुर्ब्बलैर्बलवानपि । अमित्रः शक्यते हन्तुं मधुहा भ्रमरैरिव ॥” प्रसहजातिप्राणिविशेषः ॥ यंथा, -- “शशघ्नी भासकुररगृध्रोलूककुलिङ्गकाः । धूमिका मधुहा चेति प्रसहा मृगपक्षिणः ॥” इति वाभटे सूत्रस्थाने षष्ठेऽध्याये ॥)
