सामग्री पर जाएँ

मधूकः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मधूकः, पुं, (मह्यते मन्यते वेति । मह् + मन् वा + “उलूकादयश्च ।” उणा ० ४ । ४१ । इति ऊकप्रत्ययो निपातितश्च ।) वृक्षविशेषः । महुल इति मौल इति महुया इति च भाषा ॥ तत्पर्य्यायः । गुडपुष्पः २ मधुद्रुमः ३ वान- प्रस्थः ४ मधुष्ठीलः ५ । इत्यमरः । २ । ४ । २८ ॥ मधुकः ६ मधुः ७ मधुपुष्पः ८ । इति शब्द- रत्नावली ॥ मधुस्रवः ९ । इति जटाधरः ॥ मधुवृक्षः १० रोधपुष्पः ११ माधवः १२ । (यथा, महाभारते । १५ । २५ । ११ । “चित्राङ्गदा चैव नरेन्द्रकन्या यैषा सवर्णाग्र्यमधूकपुष्पैः ॥”) अस्य गुणाः । मधुरत्वम् । शीतत्वम् । पित्त- दाहश्रमापहत्वम् । वातलत्वम् । जन्तुदोषघ्न- त्वम् । वीर्य्यपुष्टिविवर्द्धनत्वञ्च । अस्य पुष्पगुणाः । मधुरत्वम् । हृद्यत्वम् । हिमत्वम् । पित्त- विदाहकारित्वञ्च । अस्य फलगुणाः । वाता- मयपित्तनाशित्वम् । ज्ञेयं मधूकद्वयमेवमेतत् । इति राजनिर्घण्टः ॥ अपि च । “मधूकपुष्पं मधुरं शीतलं गुरु बृंहणम् । बलशुक्रकरं प्रोक्तं वातपित्तविनाशनम् ॥ फलं शीतं गुरु स्वादु शुक्रलं वातपित्तनुत् । अहृद्यं हन्ति तृष्णास्रदाहश्वासक्षत- क्षयान् ॥” इति भावप्रकाशः ॥ अपरञ्च । “मधूकपुष्पञ्चाहृद्यं तर्पणं बृंहणं परम् । मधूकस्य फलं पक्वं वातपित्तप्रणाशनम् ॥” तन्मज्जगुणास्तत्फलगुणवत् । यथा, -- “यस्य यस्य फलस्यैव वीर्य्यं भवति यादृशम् । तस्य तस्यैव वीर्य्येण मज्जानमभिनिर्द्दिशेत् ॥” तस्य त्वग्गुणाः । “मधूकं रक्तपित्तघ्नं व्रणशोधनरोपणम् ॥” इति राजवल्लभः ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मधूकः [madhūkḥ], 1 A bee.

N. of a tree; अङ्गैर्मुग्धमधूकपुष्परुचिभि- र्लावण्यसारैरयम् Mv.2.21.

कम् A flower of the Madhūka tree; दूर्वावता पाण्डुमधूकदाम्ना Ku.7.14; स्निग्धो मधूकच्छविर्गण्डः Gīt.1; R.6.25.

Liquorice.

"https://sa.wiktionary.org/w/index.php?title=मधूकः&oldid=321357" इत्यस्माद् प्रतिप्राप्तम्