मधूच्छिष्टम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मधूच्छिष्टम्, क्ली, (मधुनः उच्छिष्टमवशिष्टम् । मध्ववशिष्टम् । मोम इति भाषा ॥ (यथा, बृहत्संहितायाम् । १६ । २५ । “शैलेयकमांसीतगरकुष्ठरससैन्धवादिवल्लीजम् । मधुररसमधूच्छिष्टानि चोरकश्चेति जीवस्य ॥”) तत्पर्य्यायः । सिक्थकम् २ । इत्यमरः । २ । ९ । १०७ ॥ शिक्थकम् ३ शिक्थम् ४ । इति शब्दरत्नावली ॥
