सामग्री पर जाएँ

मधूलकः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मधूलकः, पुं, (मधूल + स्वार्थे कन् ।) जलज- मधूकवृक्षः । तत्पर्य्यायः । दीर्घपत्रकः २ । इति जटाधरः ॥ गौरशाकः ३ मधूलः ४ स्वल्प- पत्रकः ५ । इति रत्नमाला ॥ “स्यान्मधूके तु जलजे गिरिजेऽपि मधूलकः ॥” इति शब्दरत्नावली ॥ (पर्य्यायान्तरमस्य यथा, -- “मधूको गुडपुष्पः स्यान्मधुपुष्पो मधुस्रवः । वानप्रस्थो मधुष्ठीलो जलजेऽत्र मधूलकः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) अस्य गुणाः । मधूकगुणतुल्याः । मधुररसः । इति हेमचन्द्रः । ६ । २४ ॥ (क्लीवलिङ्गेऽपि दृश्यते । यथा, अथर्व्ववेदे । १ । ३४ । २ । “जिह्वाया अग्रे मधु मे जिह्वामूले मधूलकम् ॥”) तद्वति, त्रि ॥

"https://sa.wiktionary.org/w/index.php?title=मधूलकः&oldid=156009" इत्यस्माद् प्रतिप्राप्तम्