सामग्री पर जाएँ

मध्यः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मध्यः, पुं, क्ली, (मन् + यक् । नस्य च ध ।) देह- मध्यभागः । माजा इति भाषा ॥ तत्पर्य्यायः । मध्यमम् २ अवलग्नम् ३ । इत्यमरः । २ । ६ । ७९ ॥ विलग्नम् ४ । इति मेदिनी । भे, ४४ ॥ (यथा, भट्टिकाव्ये । ४ । १६ । “दधाना बलिभं मध्यं कर्णजाहविलोचना ॥” मध्यभागमात्रम् । यथा, मनुः । ४ । ३७ । “नेक्षेतोद्यन्तमादित्यं नास्तं यान्तं कदाचन । नोपसृष्टं न वारिस्थं न मध्यं नभसो गतम् ॥” “आयुष्कालस्य मध्यमावस्थाविशेषः कालः । षोडशसप्तत्योरन्तरे मध्यं वयस्तस्य विकल्पो वृद्धिर्यौवनं सम्पूर्णता हानिरिति । तत्राविंशते- र्वृद्धिरात्रिंशतो यौवनमाचत्वारिंशतः सर्व्व- धात्विन्द्रियबलवीर्य्यसम्पूर्णता । अत ऊर्द्धमीषत् परिहानिर्यावत् सप्ततिरिति ॥” इति सुश्रुते सूत्रस्थाने ३५ अध्याये ॥)

मध्यः, पुं, (मन् + यक् । नस्य धः ।) ग्रहस्फुट- साधकाङ्कविशेषः । स च अहर्गणजातदेशा- न्तरादिसंस्काररहिताङ्करूपग्रहः । इति ज्योतिषम् ॥

मध्यः, त्रि, (मन्यते इति । मन् + यक् । नस्य च धः ।) न्याय्यः । अन्तरः । अधमः । इति शब्दरत्नावली ॥ मध्यमः । यथा, -- “उत्तमाधममध्यानि बुद्धा कार्य्याणि पार्थिवः । उत्तमाधममध्येषु पुरुषेषु नियोजयेत् ॥” इति मात्स्ये ८९ अध्यायः ॥

"https://sa.wiktionary.org/w/index.php?title=मध्यः&oldid=156014" इत्यस्माद् प्रतिप्राप्तम्