सामग्री पर जाएँ

मध्यमः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मध्यमः, पुं, (मध्ये भवः । मध्य + मः ।) सप्त- स्वराणां मध्ये पञ्चमस्वरः । इत्यमरः । १ । ७ । १ ॥ गानशास्त्रमते चतुर्थस्वरः । स तु क्रौञ्चस्वर- तुल्यः । अस्योच्चारणस्थानं वक्षः । व्याकरणमते अधरः । अयं विप्रवर्णः । अस्य संज्ञा अन्तरः । अर्थात्चतुःस्वरमिलितः । तस्य ताना- श्चतुर्विंशतिः तेषां प्रत्येकं द्वात्रिंशद्भेदेन ७६८ ताना भवन्ति । इति संगीतशास्त्रम् ॥ उपपति- भेदः । तस्य लक्षणम् । प्रियायाः प्रकोपे यः प्रकोपमनुरागं वा न प्रकटयति चेष्टया मनो- भावं गृह्णाति स मध्यमः । यथा, -- “आस्यं यद्यपि हास्यवर्जितमिदं लास्येन हीनं वचो नेत्रे शोणसरोजकान्तिरुचिरे क्वापि क्षणं स्थीयते । मालायाः करणोद्यमे मकरिकारम्भः कुचा- म्भोजयो- र्धूपः कुन्तलधोरणीषु सुतनोः सायन्तनो दृश्यते ॥” इति रसमञ्जरी ॥ मध्यदेशः । इत्यमरः ॥ ग्रहाणां सामयिक- संज्ञाविशेषः । यथा, -- “द्युचरचक्रहतो दिनसञ्चयः क्व ह हतो भगणादिफलं ग्रहः । दशशिरःपुरमध्यमभास्करे क्षितिजसन्निधिगे सति मध्यमः ॥” इति सिद्धान्तशिरोमणिः ॥ मृगभेदः । रागभेदः । इति धरणिः ॥

मध्यमः, त्रि, (मध्ये भवः । मध्य + “मध्यान्मः । ४ । ३ । ८ । इति मः ।) मध्यभवः । इति मेदिनी । मे, ४९ ॥ (यथा, मनौ । ९ । ११२ । “ततोऽर्द्धं मध्यमस्य स्यात् तुरीयन्तु यवीयसः ॥”) तत्पर्य्यायः । माध्यमम् २ मध्यमीयम् ३ माध्यन्दिनम् ४ । इति हेमचन्द्रः ॥ (वयोमध्य- समयः । “वयश्चतुर्व्विधं प्रोक्तं मध्यमाधममुत्तमम् । हीनञ्च हारीत ह्यत्र तानि वक्ष्यामि साम्प्रतम् ॥ पथिश्रान्तः श्रमक्षीणः बालश्रीः सुकुमारकः । एतेषां मध्यमा संज्ञा प्रोच्यते वैद्यकागमे । मध्यमः सप्ततिं यावत् परतो वृद्ध उच्यते ॥” इति हारीते प्रथमे स्थाने पञ्चमेऽध्याये ॥ “बाले विवर्द्धते श्लेष्मा मध्यमे पित्तमेव तु । भूयिष्ठं वर्द्धते वायुर्वृद्ध्वे तद्बीक्ष्य योजयेत् ॥” इति च सुश्रुते सूत्रस्थाने ३५ अध्याये ॥)

"https://sa.wiktionary.org/w/index.php?title=मध्यमः&oldid=156029" इत्यस्माद् प्रतिप्राप्तम्