सामग्री पर जाएँ

मध्यमसंग्रहः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मध्यमसंग्रहः पुं, (मध्यमश्चासौ संग्रहश्चेति ।) स्त्रीसंग्रहणाख्यविवादविशेषः । स तु गन्ध- माल्यवस्त्रभूषादिप्रेरणरूपः । यथा । प्रथम- साहसादिदण्डप्राप्त्यर्थं त्रेधा तत्स्वरूपं व्यासेन विवृतम् । “त्रिविधं तत् समाख्यातं प्रथमं मध्यमोत्तमम् । अदेशकालभाषाभिर्निर्जने च परस्त्रियाः । कटाक्षावेक्षणं हास्यं प्रथमं साहसं स्मृतम् ॥ प्रेषणं गन्धमाल्यानां धूपभूषणवाससाम् । प्रलोभनञ्चान्नपानैर्मध्यमं समुदाहृतम् ॥ सहासनं विविक्तेषु परस्परमपाश्रयः । केशाकेशिग्रहश्चैव सम्यक् संग्रहणं स्मृतम् ॥” इति मिताक्षरायां स्त्रीसंग्रहणप्रकरणम् ॥

"https://sa.wiktionary.org/w/index.php?title=मध्यमसंग्रहः&oldid=156037" इत्यस्माद् प्रतिप्राप्तम्