मध्यस्थः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मध्यस्थः, त्रि, (मध्ये वादिप्रतिवादिनोरन्तरे तिष्ठतीति । स्था + कः ।) मध्यस्थायी । तत्- पर्य्यायः । निसृष्टः २ । इति त्रिकाण्डशेषः ॥ (यथा कथासरित्सागरे । १० । १९१ । “निषिद्धवत्या मध्यस्थान्दस्यूनानन्दपूर्णया । स श्रीदत्तस्तया साकं तन्मन्दिरमथाविशत् ॥” यथा च भागवते । ६ । १६ । ५ । “बन्धुज्ञात्यरिमध्यस्थमित्रोदासीनविद्विषः । सर्व्व एव हि सर्व्वेषां भवन्ति क्रमशो मिथः ॥”) उभयपक्षहीनः । यथा, -- “श्रुत्वा युद्धोद्यमं रामः कुरूणां सह पाण्डवैः । तीर्थाभिषेकव्याजेन मध्यस्थः प्रययौ किल ॥” इति श्रीभागवते १० स्कन्धे ७८ अध्यायः ॥ स्वार्थाविरोधेन परार्थघटकः । यथाह प्राञ्चः । “ते ते सत्पुरुषाः परार्थघटकाः स्वार्थस्य वाधेन ये मध्यस्थाः परकीयकार्य्यकुशलाः स्वार्थाविरो- धेन ये । तेऽमी मानुषराक्षसाः परहितं यैः स्वार्थतो हन्यते ये तु घ्नन्ति निरर्थकं परहितं ते के न जानी- महे ॥”
