मनःशिला

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मनःशिला, स्त्री, (मनः शिलति आददाति आक- र्षति गन्धेनेति । शिल + कः । स्त्रियां टाप् । यद्वा, मनःप्रसादिका शिला धातुविशेषः ।) रक्तवर्णधातुविशेषः । मञ्छल इति भाषा ॥ (यथा, कुमारे । १ । ५५ । “मनःशिलाविच्छुरिता निषेदुः शैलेयनद्धेषु शिलातलेषु ॥”) सा तु लक्ष्मीवीर्य्यम् । इति वैद्यकम् ॥ तत्प- र्य्यायः । कुनटी २ मनोज्ञा ३ नागजिह्विका ४ । इत्यमरः । २ । ९ । १०८ ॥ नैपाली ५ शिला ६ । इति रत्नमाला ॥ मनोह्वा ७ नेपा- लिका ८ मनोगुप्ता ९ कल्याणिका १० रोग- शिला ११ । इति राजनिर्घण्टः ॥ गोला १२ दिव्यौषधिः १३ । इति भावप्रकाशः ॥ अस्या गुणाः । कटुत्वम् । स्निग्धत्वम् । लेखनत्वम् । विषभूतावेशभयोन्मादनाशित्वम् । वश्यकारि- त्वञ्च । इति राजनिर्घण्टः ॥ अपि च । तिक्त- त्वम् । कफनाशित्वम् । सारकत्वम् । छर्द्दि- कारित्वम् । कुष्ठज्वरपाण्डुकासश्वासनाशि- त्वम् । शुक्रमङ्गलकारित्वञ्च । इति राजवल्लभः ॥ अन्यच्च । “मनःशिला गुरुर्ब्बल्या सरोष्णा लेखनी कटुः । तिक्ता स्निग्धा विषश्वासकासभूतकफास्रनुत् ॥ मनःशिला मन्दबलं करोति जन्तुं ध्रुवं शोधनमन्तरेण । मलानुबन्धं किल मूत्ररोधं सशर्करं कृच्छ्रगदञ्च कुर्य्यात् ॥” इति भावप्रकाशः ॥ (अस्याः पर्य्यायः शोधनं गुणाश्च यथा, -- “मनःशिला च नेपाली शिलाह्वा नागजिह्विका । मनोज्ञा कुनटी गोली करञ्जी करवीरिका ॥ मनोह्वा ओड्रपुष्पाभा शस्यते सर्व्वकर्म्मसु ॥” “जयन्ती भृङ्गराजोत्थै रक्तागस्त्यरसैः शिला ॥ दोलायन्त्रे दिनं पाच्या यामं छागस्य मूत्रके । क्षालयेदारनालेन सर्व्वरोगेषु योजयेत् ॥” मतान्तरे मनःशिलाशुद्धिर्यथा, -- “अगस्त्यपत्रतोयेन भाविता सप्तवासरम् । शृङ्गवेररसैर्वापि विशुध्यति मनःशिला । कटुः स्निग्धा शिला तिक्ता कफघ्नी लेखनी सरा । भूतावेशभयं हन्ति कासश्वासहरा शुभा ॥” इति वैद्यकरसेन्द्रसारसंग्रहे जारणमारणाधि- कारे ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मनःशिला स्त्री।

मनःशिला

समानार्थक:मनःशिला,मनोगुप्ता,मनोह्वा,नागजिह्विका,नैपाली,कुनटी,गोला

2।9।108।1।1

मनःशिला मनोगुप्ता मनोह्वा नागजिह्विका। नैपाली कुनटी गोला यवक्षारो यवाग्रजः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, मूलकम्

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मनःशिला/ मनः--शिला f. (L. also लm. ; See. comp. )realgar , red arsenic MBh. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=मनःशिला&oldid=322858" इत्यस्माद् प्रतिप्राप्तम्