मननम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मननम्, क्ली, (मन्यत इति । मन् + ल्युट् ।) श्रुतस्या- द्बितीयवस्तुनो वेदान्तार्थानुगुणयुक्तिभिः अन- वरतमनुचिन्तनम् । इति वेदान्तसारः ॥ बोध- नम् । (यथा, गायत्त्रीतन्त्रे । १ । ४ । “मननात् पापतस्त्राति मननात् स्वर्गमश्नुते । मननात् मोक्षमाप्नोति चतुर्व्वर्गमयो भवेत् ॥”) धारणम् । इति मनधात्वर्थदर्शनात् । बुद्धिः । इति राजनिर्घण्टः ॥
