सामग्री पर जाएँ

मनस्कारः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मनस्कारः, पुं, (मनसि मनसो वा कारो निश्चय इति । यद्वा, कृ + भावे घञ् । मनसः कारो- विकारः करणमिति वा ।) मनसः सुखादिः । तत्र्य्यायः । चित्ताभोगः २ । इत्यमरः । १ । ५ । ५ ॥ द्वे मनसः सुखादौ तत्परत्वे एकस्मिन् विषये मनसः पुनः पुनः प्रवृत्तिराभोगः । आभोगस्तात्पर्य्यमिति सर्व्वानन्दः । स्थैर्य्य- मित्यन्ये । व्यापार इत्यपरे । वाञ्छितवस्तु- प्राप्त्या चित्तस्य निराकाङ्क्षता । आभोगः परिपूर्णतेति परे । अनागतचिन्तनादिरूपो मनस्कार इत्यपरे । मनसो मनसि वा कारो निश्चयो मनस्कारः सेतु कखेति सः । मनसि करणं मनसि कारः इत्यपि दृश्यते अत्र बाहु- ल्यात् सप्तम्या अलुक् । इति तट्टीकायां भरतः ॥

"https://sa.wiktionary.org/w/index.php?title=मनस्कारः&oldid=156089" इत्यस्माद् प्रतिप्राप्तम्