मनस्तापः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मनस्तापः, पुं, (मनसः तापः पीडा ।) मनः- पीडा । यथा, गारुडे १११ अध्याये । “मनस्तापं न कुर्व्वीत आपदं प्राप्य पार्थिवः । समबुद्धिः प्रसन्नात्मा सुखदुःखे समो भवेत् ॥” अनुतापः । यथा, प्रायश्चित्ततत्त्वे । “ब्राह्मणेन यदा दैवात् छिन्नं यज्ञोपवीतकम् । मनस्तापेन शुद्धिः स्यादापस्तम्बोऽब्रवीन्मुनिः ॥”
