सामग्री पर जाएँ

मनस्थ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मनस्थम्, त्रि, (मने मनसि वा तिष्ठतीति । स्था + कः । पक्षे विसर्गस्य लोपः ।) मनोऽवच्छिन्नम् । अन्तःकरणस्थितम् । यथा, -- “मनस्थं मनमध्यस्थं मध्यस्थं मनवर्ज्जितम् । मनसा मनमालोक्य स्वयं सिद्ध्यन्ति योगिनः ॥” इति श्रीमदुत्तरगीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्ज्जुनसंवादे ब्रह्मनिरूपणं नाम १ अध्यायः ॥ “तादृशब्रह्मापरोक्षेण मुच्यते इत्याह मनस्थमित्यादि । मनस्थं मनोऽव- च्छिन्नम् । मनमध्यस्थं मनःसाक्षीभूतम् । मध्यस्थं सर्व्वसाक्षीभूतम् । मनवर्ज्जितं सङ्कल्पविक- ल्पादिरहितम् । मनमवबोधात्मकम् । तदेवं मनसा परिशुद्धान्तःकरणेन । आलोक्य तद् गोचरापरोक्षचरमवृत्तिं लब्ध्वा । योगिनः ज्ञानिनः । स्वयमेव सिद्ध्यन्ति निवृत्ताविद्यका मुक्ता भवन्तीत्यर्थः ।” इति श्रीमदुत्तरगीतायाः सुबोधिन्यां टीकायां श्रीगौडपादाचार्य्यविर- चितायां १ अध्यायः ॥ * ॥ सर्व्वे सान्ता अद- न्ताश्चेति प्रमाणादत्र मनशब्दोऽकारान्तः । मनःस्थितम् । यथा, -- “आजन्मं मन्मनस्थं यदपि मम मनोमध्यतः क्वापि नाभूत् तत्ते पुण्यप्रतापादिह शरदि सतः सिद्धमाभूत् सुखेन ॥” इत्युद्भटः ॥

"https://sa.wiktionary.org/w/index.php?title=मनस्थ&oldid=156094" इत्यस्माद् प्रतिप्राप्तम्