मनोजवः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मनोजवः, पुं, (मनस इव जवोऽस्य । एकदैव सर्व- गामित्वात् तथात्वम् ।) विष्णुः । यथा, महा- भारते दानधर्म्मे सहस्रनामस्तोत्रम् । १३ । १४९ । ८७ । “मनोजवस्तीर्थकरो वसुरेता वसुप्रदः ॥” (मनसश्चित्तस्य जवः ।) मनसो वेगः । इति व्याकरणम् ॥ (अनिलपत्न्याः शिवायाः पुत्त्रः । यथा, हरिवंशे । ३ । ४२ । “अनिलस्य शिवा मार्य्या यस्याः पुत्त्रो मनो- जवः ॥”) रुद्रस्य पुत्त्रभेदः । यथा, मार्कण्डेये । ५२ । ११ । “शनैश्चरस्तथा शुक्रो लोहिताङ्गो मनोजवः ॥” तीर्थभेदः । यथा, महाभारते । ३ । ८३ । ८५ । “मनोजवे नरः स्नात्वा गोसहस्रफलं लभेत् ॥” षष्ठमन्वन्तरस्येन्द्रः । यथा, मार्कण्डेये । ७६ । ५३ । “मनोजवस्तथैवेन्द्रः संख्यातो यज्ञभागभुक् ॥” भेधातिथेः पुत्त्रभेदः । यथा, भागवते । ५ । २० । २५ । “तस्य प्रियव्रत एवाधिपतिर्नाम्ना मेधा- तिथिः । सोऽपि विभज्य सप्तवर्षाणि पुत्त्रनामानि तेषु स्वात्मजान् पुरोजवमनोजववेपमानधूम्रा- नीकचित्ररेफविश्वाधारसंज्ञान् निधाप्याधि- पतीन् स्वयं भगवत्यनन्त आवेशितमतिस्तपो- वनं प्रविवेश ॥”)
मनोजवः, त्रि, (मनो जवं वेगवद्यस्मिन् । यद्वा, मनो जवति पितायमिति कृत्वा धावत्यस्मिन् इति । जु सौत्रधातुः + अच् ।) पितृतुल्यः । तत्प- र्य्यायः । पितृसन्निभः ७ । इत्यमरः । ३ । १ । १३ ॥ अतिशयवेगवान् । (यथा, मार्कण्डेये । २१ । ८ । “तमन्वधावद्वेगेन तुरगोऽसौ मनोजवः ॥”)
