मनोज्ञम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मनोज्ञम्, क्ली, (मनो जानाति ज्ञापयति तोषय- तीति । अन्तर्भूतण्यर्थे ज्ञा + कः ।) सरल- काष्ठम् । इति रत्नमाला ॥
मनोज्ञम्, त्रि, (मनसा जानातीति । ज्ञा + कः । यद्वा, मनः ज्ञापयति तोषयतीति । अन्त- र्भूतण्यर्थज्ञाधातोः कः ।) मनोहरम् । तत्प- र्य्यायः । सुन्दरम् २ रुचिरम् ३ चारु ४ सुषमम् ५ साधु ६ शोभनम् ७ कान्तम् ८ मनोरमम् ९ रुच्यम् १० मञ्जु ११ मञ्जुलम् १२ । इत्यमरः । ३ । १ । ५२ ॥ मनोहरम् १३ बन्धु- रम् १४ बन्धूरम् १५ पेशलम् १६ पेषलम् १७ सुमनम् १८ वामम् १९ अमिरामम् २० नन्दि- तम् २१ । इति शब्दरत्नावली ॥ (यथा, सुश्रुते । १ । ४६ । अध्याये । “मनोज्ञं शुचि नात्युष्णं प्रत्यग्रमशनं हितम् । पूर्व्वं मधुरमश्नीयात् मध्येऽम्ललवणौ रसौ ॥”)
