मनोरथः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मनोरथः, पुं, (मनसः रथ इव । मन एव रथो- ऽत्रेति वा) इच्छा । इत्यमरः । १ । ७ । २७ ॥ (यथा, रघौ । ११ । ५९ । “इतस्ततश्च वैदेहीमन्वेष्टुं भर्त्तृचोदिताः । कपयश्चेरुरार्त्तस्य रामस्येव मनोरथाः ॥” कविविशेषः । यथा, राजतरङ्गिण्याम् । ४ । ५९६ । “मनोरथः शङ्खद्त्तश्चटकः सन्धिमांस्तथा । बभूवुः कवयस्तस्य वामनाद्याश्च मन्त्रिणः ॥”)
