मन्तुः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मन्तुः, पुं, (मन्यते इति । मन् + “कमिमनिजनि- गाभायाहिभ्यश्च ।” उणा ० । १ । ७३ । इति तुन् ।) अपराधः । (यथा, नैषधचरिते । ६ । ११० । “सतीव्रतैस्तीव्रमिमन्तु मन्तु- मन्तर्वरं वज्रिणि मार्ज्जितास्मि ॥”) मनुष्यः । प्रजापतिः । इति मेदिनी । ते, ४३ ॥ द्वात्रिंशदपराधा यथा । भगवद्भक्तानां क्षत्त्रिय- सिद्धान्नभोजनम् १ अनिषिद्धदिने दन्तधावन- मकृत्वा विष्णोरुपसर्पणम् २ मैथुनं कृत्वा अस्नात्वा विष्णोरुपसर्पणम् ३ मृतं नरं स्पृष्ट्वा अस्नात्वा विष्णुकर्म्मकरणम् ४ रजस्वलां स्पृष्ट्वा अस्नात्वा विष्णुगृहप्रवेशनम् ५ मानवं शवं स्पृष्ट्वा अस्नात्वा विष्णुसन्निधाववस्थानम् ६ विष्णुं स्पृशतः पायुवायुप्रयोगः ७ विष्णोः कर्म्म कुर्व्वतः पुरीषत्यागः ८ विष्णुशास्त्रमनादृत्य शास्त्रान्तरप्रशंसा ९ अतिमलिनं वासः परि- धाय विष्णुकर्म्माचरणम् १० अविधानेनाचम्य विष्णोरुपस्पर्शनम् ११ विष्णोरपराधं कृत्वा विष्णोरुपसर्पणम् १२ क्रुद्धस्य विष्णुस्पर्शनम् १३ निषिद्धपुष्पेण विष्णोरर्च्चनम् १४ रक्तं वासः परिधाय विष्णोरुपसर्पणम् १५ अन्धकारे दीपेन विना विष्णोः स्पर्शनम् १६ कृष्णं वस्त्रं परिघाय विष्णोः कर्म्माचरणम् १७ वायसोद्धृतवस्त्रं परिधाय विष्णोः कर्म्माचरणम् १८ विष्णवे कुक्कुरोच्छिष्टदानम् १९ वराहमांसं भुक्त्रा विष्णो- रुपसर्पणम् २० जालपादशरारिमांसं भुक्त्वा विष्णोरुपसर्पणम् २१ दीपं स्पृष्ट्वा हस्तमप्रक्षाल्य विष्णोः स्पर्शनं कर्म्माचरणं वा २२ श्मशानं गत्वा अस्नात्वा विष्णोरुपसर्पणम् २३ पिण्याकं भुक्त्वा विष्णोरुपसर्पणम् २४ विष्णवे वराहमांस- निवेदनम् २५ मद्यमादाय स्पृष्ट्वा पीत्वा वा विष्णुगृहप्रवेशनम् २६ परकीयेणाशुचिना वा वस्त्रेण परिहितेन विष्णुकर्म्माचरणम् २७ विष्णवे नवान्नमप्रदाय तद्भोजनम् २८ गन्धपुष्पे द्बाविंशत्यपराधानां तान्यहं चोपकल्पये ॥ यस्तु वाराहमांसानि प्रापणेनोपपादयेत् । अपराधं त्रयोविंशं कल्पयामि वसुन्धरे ! ॥ सुरां पीत्वापि यो मर्त्यः कदाचिदुपसर्पति । अपराधं चतुर्विंशं कल्पयामि वसुन्धरे ! ! ॥ यः कुसुम्भञ्च मे शाकं भक्षयित्वोपचक्रमे । अपराधं पञ्चविंशं कल्पयामि वसुन्धरे ! ॥ परप्रावरणेनैव यस्तु मामुपसर्पति । अपराधेषु षड्विंशं कल्पयामि वरानने ! ॥ नवान्नं यस्तु भक्षेत न स देवान् पितॄन् यजेत् ॥ सप्तविंशापराधानि कल्पयामि गुणान्विते ! ॥ उपानहौ च प्रपदे तथा मे वोपचक्रमे । अष्टाविंशापराधानि कल्पयामि गुणान्विते ! ॥ शरीरं मण्डयित्वा तु यो मामाप्नोति माधवि ! । एकोनत्रिंशमपराधं स स्वर्गेषु न गच्छति ॥ अजीर्णेन समाविष्टो यस्तु मामभिगच्छति । त्रिंशकञ्चापराधानां कल्पयामि वसुन्धरे ! ॥ गन्धपुष्पाण्यदत्त्वा तु यस्तु धूपं प्रयच्छति । एकत्रिं शापराधन्तु कल्पयामि यशस्विनि ! ॥ विना भेर्य्यादिशब्देन द्वारस्योद्घाटनं मम । महापराधं विद्येत तद्द्वात्रिंशापराधकम् ॥” इति वाराहे द्वात्रिंशदपराधाध्यायः ॥ (त्रि, ज्ञाता । यथा, ऋग्वेदे । १० । ६३ । ८ । “य ईशिरे भुवनस्य प्रचेतसो विश्वस्य स्थातुर्जगतश्च मन्तवः ।” “मन्तवः सर्व्वस्य वेदितारः ।” इति तद्भाष्ये सायनः ॥ मननीयः । यथा, ऋग्वेदे । १ । १५२ । १ । “युवोरच्छिद्रा मन्तवोह सर्गाः ।” “मन्तवोह मननीयाश्च ।” इति सायनः ॥)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मन्तुः [mantuḥ], 1 A fault, an offence; मुधैव मन्तुं परिकल्प्य Bv.2. 13; अनेन हेतुना ह्यस्य मन्तवः शतशो मया (क्षान्ताः) Śiva B.15.12; भवता शिवभूपस्य बहवो मन्तवः कृताः Śiva B.31.6; N. 6.11.
Man, mankind.
Lord of men (प्रजापति).
Ved. An adviser.
A manager, director.
Advice, counsel. -न्तुः f. Understanding, intellect.
