सामग्री पर जाएँ

मन्त्रणा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मन्त्रणा, स्त्री, (मन्त्र + भावे युच् । टाप् ।) रहसि कर्त्तव्यावधारणम् । इति मन्त्रशब्द- टीकायां भरतः ॥ मन्त्रः । यथा, -- “वादी मूकति रङ्कति क्षितिपतिर्वैश्वानरः शीतति क्रोधी शाम्यति दुर्जनः सुजनति क्षिप्रानुगः खञ्जति । गर्व्वी खर्व्वति सर्व्वविच्च जडति त्वन्मन्त्रणा- यन्त्रितः श्रीनित्ये वगलामुखि ! प्रतिदिनं कल्याणि तुभ्यं नमः ॥” इति तन्त्रसारे वगलास्तोत्रम् ॥ * ॥ मन्त्रणायां वर्णनीयानि यथा, -- “मन्त्रे पञ्चाङ्गताशक्तिषाड्गुण्योपायसिद्धयः । उदयाश्चिन्तनीयाश्च स्थैर्य्योन्नत्यादिसूक्तयः ॥” इति कविकल्पलता ॥ * ॥ व्यक्तित्रयादिकृतमन्त्रणायां दोषो यथा, -- “षट्कर्णो भिद्यते मन्त्रश्चतुष्कर्णश्च धार्य्यते । द्विकर्णस्य तु मन्त्रस्य ब्रह्माप्येको न बुध्यते ॥” इति गारुडे ११४ अध्यायः ॥ राज्ञा विद्यादिगुणयुक्तविप्रा मन्त्रिणः कार्य्याः । यथा, -- “मन्त्रिणस्तु नृपः कुर्य्यात् विप्रान् विद्याविशा- रदान् । विशुद्धांश्च कुलीनांश्च धर्म्मार्थकुशलानृजून् ॥ मन्त्रयेत्तैः समं काले नात्यर्थं बहुभिश्चरेत् । एकैकेनैव कर्त्तव्यं मन्त्रस्य तु विनिश्चयम् ॥ व्यस्तैश्चैव समस्तैश्च वान्यस्य व्यपदेशतः । स्वयं वृत्तं मन्त्रगृहं स्थूल आरुह्य मन्त्रयेत् ॥ अरण्ये निःशलाके वा न यामिन्यां कदाचन । शिशून् शाखामृगान् पण्डान् शुकान् वैशा- रिकांस्तथा ॥ वर्जयेन्मन्त्रगेहेषु मनुष्यानुद्धतांस्तथा । दूषणं मन्त्रभेदेषु नृपाणां यत्र जायते ॥ न तत् सम्यक् समाधातुं दक्षैर्नृपशतैरपि ॥” इति कालिकापुराणे ८५ अध्यायः ॥ अथ मन्त्रनिर्णयः । “मन्त्रमूलं यतो राज्यं ततो मन्त्रं सुरक्षितम् । कुर्य्याद्राजा सदा मन्त्रान् कर्म्मणामाफलोदयात् ॥ अर्थानर्थौ हि यत्रोभौ संशयश्च परीक्ष्यते । स मन्त्र इति विज्ञेयः शेषाश्च खलु विभ्रमाः ॥ एकमेव विषं हन्ति शस्त्रेणैकश्च वध्यते । सराष्ट्रं सम्पदं हन्ति राजानं मन्त्रविप्लवः ॥ करिष्यन् न प्रभाषेत कृतान्येव तु दर्शयेत् । धर्म्मार्थकामकार्य्याणि कृतो मन्त्रो न भिद्यते ॥ गिरिपृष्ठमुपारुह्य प्रासादं वा रहोगतः । स्वपथे निःशलाके वा तत्र मन्त्रो विधीयते ॥ तत्र साम प्रयोक्तव्यं कार्य्येषु गुणवत्स्वपि । दानं लुब्धेऽपि भेदश्च शङ्कितेष्वपि निश्चयः ॥ जडमूकान्धबधिरान् तिर्य्यग्योनीन् वयोऽधि- कान् । स्त्रीम्लेच्छव्याधितव्यङ्गान् मन्त्रकाले निषेधयेत् । इति सम्पततः प्रोक्तो राजनीतिरियं मया ॥ यत्त्रिवर्गाविरुद्धं स्याद्राजनीतिस्तदुच्यते ॥” इति युक्तिकल्पतरौ नीतियुक्तिः ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मन्त्रणा¦ स्त्री मन्त्रि--युच्। गुप्तभाषणे ल्युट्। तत्रार्थे न॰।

"https://sa.wiktionary.org/w/index.php?title=मन्त्रणा&oldid=325098" इत्यस्माद् प्रतिप्राप्तम्