सामग्री पर जाएँ

मन्त्रदातृ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मन्त्रदाता, [ऋ] त्रि, (मन्त्रं ददातीति । मन्त्र + दा + तृच् ।) मन्त्रदानकर्त्ता । गुरुः । यथा, -- “सर्व्वेषाञ्च गुरूणाञ्च जन्मदाता परो गुरुः । पितुः शतगुणैर्माता पूज्या बन्द्या गरीयसी ॥ विद्यादाता मन्त्रदाता ज्ञानदो हरिभक्तिदः । पूज्यो वन्द्यश्च सेव्यश्च मातुः शतगुणैर्गुरुः ॥ मन्त्रमुद्गीरणेनैव गुरुरित्युच्यते बुधैः । दरिद्रं पतितं क्षुद्रं नर-बुद्ध्याचरेद्गुरुम् । सोऽशुचिस्तीर्थस्नातोऽपि नाधिकारी च कर्म्मसु ॥ पितरं मातरं भार्य्यां गुरुपत्नीं गुरुं परम् । यो न पुष्णाति कापट्यात् स महापातकी शिव ! ॥ गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः । गुरुरेव परं ब्रह्म गुरुर्भास्कररूपधृक् ॥ गुरुश्चन्द्रस्तथेन्द्रश्च वायुश्च वरुणोऽनलः । सर्व्वरूपो हि भगवान् परमात्मा स्वयं गुरुः ॥ नास्ति वेदात् परं शास्त्रं नहि कृष्णात् परः सुरः । नास्ति गङ्गासमं तीर्थं न पुष्पं तुलसीपरम् ॥ नास्ति क्षमावती भूमेः पुत्त्रान्नास्ति परः प्रियः । न च दैवात् परा शक्तिर्व्रतं नैकादशीं विना ॥ शालग्रामात्परो यन्त्रो न क्षेत्रं भारतात् परम् । परं पुण्यस्थलानाञ्च पुण्यं वृन्दावनं यथा ॥ मोक्षदानां यथा काशी वैष्णवानां यथा शिवः । न पार्व्वतीपरा साध्वी न गणेशात् परो वशी ॥ न च विद्यासमो बन्धुर्नास्ति कश्चिद्गुरोः परः । विद्यादातुः पुत्त्रदारौ तत्समौ नात्र संशयः ॥” इति ब्रह्मवैवर्त्तपुराणे गणपतिखण्डे ४४ अध्यायः ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मन्त्रदातृ¦ पु॰ दा--तृच्

६ त॰। गुरौ।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मन्त्रदातृ/ मन्त्र--दातृ m. a teacher of sacred -ttext BrahmaP.

"https://sa.wiktionary.org/w/index.php?title=मन्त्रदातृ&oldid=325185" इत्यस्माद् प्रतिप्राप्तम्