मन्थः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मन्थः, पुं, (मथ्यतेऽनेन । मन्थ + करणे घञ् ।) मन्थदण्डकः । इत्यमरः । २ । ९ । ७४ ॥ (यथा, महाभारते । १२ । ३४३ । ११ । “आमथ्य मतिमन्थेन ज्ञानोदधिमनुत्तमम् । नवनीतं तथा दध्नो मलयाच्चन्दनं यथा ॥” मथ्यते विलोड्यते इति । मन्थ + कर्म्मणि घञ् ।) साक्तवः । (मथ्नाति स्वकरेण त्रिभुवनं पीडय- तीति । मन्थ + अच् ।) दिवाकरः । इति मेदिनी । थे, ११ ॥ साक्तवो यथा, -- “सक्तुभिः सर्पिषाभ्यक्तैः शीतवारिपरिप्लुतैः । नात्यच्छो नातिसान्द्रश्च मन्थ इत्यभिधीयते ॥” इति राजनिर्घण्टः ॥ पेयविशेषः । तस्य विधिर्यथा, -- “जले चतुष्पले शीते क्षुण्णं द्रव्यं पलं क्षिपेत् । मृत्पात्रे मन्थयेत् सम्यक् तस्माच्च द्विपलं पिबेत् ॥” क्षुण्णं चूर्णीकृतम् । मन्थयेत् मृद्नीयात् । इति भावप्रकाशः ॥ (मन्थ + भावे घञ् ।) मारणम् । इति त्रिकाण्डशेषः ॥ नेत्रमलम् । इति धरणिः ॥ नेत्रामयः । इति विश्वः ॥ अंशुः । इति शब्द- रत्नावली ॥ कुन्थनम् । विलोडनम् । इति मन्थधात्वर्थदर्शनात् ॥ (यथा, रघौ । १० । ३ । “अतिष्ठत् प्रत्ययापेक्षसन्ततिः स चिरं नृपः । प्राङ्मन्थादनभिव्यक्तरत्नोत्पत्तिरिवार्णवः ॥”)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मन्थः [manthḥ], [मन्थ्-करणे घञ्]
Churning, shaking about, stirring, agitating; मन्थादिव क्षुभ्यति गाङ्गमम्भः U.7.16; R.1.3.
Killing, destroying.
A mixed beverage; पुंसा नक्षत्रेण मन्थं संनीय जुहोति Bṛi. Up. 6.3.1.
A churning-stick (मन्था also).
The sun.
A ray of the sun.
Excretion of rheum from the eyes, mucus (from the eyes), cataract.
An instrument for kindling fire by attrition.
A spoon for stirring.
A kind of antelope.
A medical preparation of drink; चूर्णे चतुष्पले शीते क्षुणद्रव्यं पलं क्षिपेत् । मृत्पात्रे मन्थयेत् सम्यक् तस्माच्च द्विपलं पिबेत् Bhāva. P. -Comp. -अचलः, -अद्रिः, -गिरिः, -पर्वतः, -शैलः the Mandara mountain (used as a churning-stick); मन्थाद्रिभ्रमणभ्रमं हृदि हरिद्दन्तावलाः पेदिरे Bv.1.55. -उदकः, -उदधिः the sea of milk. -गुणः a churning-cord. -जम् butter. -दण्डः, -दण्डकः a churning-stick. -विष्कम्भः the churning post (Mar. घुसळखांब).
