सामग्री पर जाएँ

मन्थरः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मन्थरः, पुं, (मन्थ + बाहुलकात् अरन् ।) कोषः ॥ फलम् । वाधः । मन्थानः । इति मेदिनी । रे, १९८ ॥ सूचकः । इति विश्वः ॥ मन्दगामि- योद्धा । इति क्षत्त्रियवर्गे अमरः । २ । ८ । ७२ । कोपः । इत्यजयः ॥

मन्थरः, त्रि, (मन्थति पादाविति । मथि + अरन् ।) मन्दः । (यथा, साहित्यदर्पणे । ३ । ६८ “दत्ते सालसमन्थरं भुवि पदं निर्याति नान्तः- पुरात् ॥”) पृथुः । वक्रः । इति मेदिनी । रे, १९८ ॥ (निश्चलः । यथा, आर्य्यासप्तशत्याम् । ४८८ । “राज्याभिषेकसलिलक्षालितमौलेः कथासु कृष्णस्य । गर्वभरमन्थराक्षी पश्यति पदपङ्कजं राधा ॥”) जडः । इति शब्दरत्नावली ॥ नीचः । इति हेमचन्द्रः । ६ । ६५ ॥ (मन्दगामी । इति हेमचन्द्रः । ३ । १५९ ॥)

"https://sa.wiktionary.org/w/index.php?title=मन्थरः&oldid=156214" इत्यस्माद् प्रतिप्राप्तम्