मन्दः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मन्दः, पुं, (मन्दते इति । मदि + अच् ।) शनिः । (यथा, ज्योतिषे । “शुक्रेन्दुबुधजीवानां वाराः सर्व्वत्र शोभनाः । भानुभूसुतमन्दानां शुभकर्म्मसु केष्वपि ॥”) हस्तिजातिविशेषः । इति मेदिनी । दे, १३ ॥ यमः । इति त्रिकाण्डशेषः ॥ (यथा, कथा- सरित्सागरे । ३२ । १५५ । “तत्र मन्दमिवालोक्य साभिप्रायः स मां नृपः । पप्रच्छ रे किमीदृक् त्वं सञ्जातः कथ्यतामिति ॥”) प्रलयः । इत्यजयः ॥ (जठरानलविशेषः । यथा, हारीते चिकित्सितस्थाने ६ अध्याये । “तीक्ष्णः पित्ताधिकत्वेन जायते जठराग्निकः । वातश्लेष्माधिकत्वेन जायते मन्दसंज्ञकः ॥”)
मन्दः, त्रि, (मदि + अच् ।) अतीक्ष्णः । मूर्खः । (यथा, रघुवंशे । १ । ३ । “मन्दः कवियशःप्रार्थी गमिष्याम्युपहास्य- ताम् ॥”) स्वैरः । अभाग्यः । रोगी । अल्पः । इति मेदिनी । दे, १३ ॥ (यथा, मेघदूते । १ । ४ । “मन्दं मन्दं नुदति पवनश्चानुकूलो यथा त्वाम् ॥” अलसः । यथा, श्रीमद्भागवते । १ । १ । १० । “प्रायेणाल्पायुषः सभ्य ! कलावस्मिन् युगे जनाः । मन्दाः सुमन्दमतयो मन्दभाग्या ह्युपद्रुताः ॥” “मन्दाः अलसाः ।” इति तट्टीकायां श्रीधर- स्वामी ॥) मदरतः । खलः । इति हेमचन्द्रः । ३ । ४८ ॥
