सामग्री पर जाएँ

मन्दरः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मन्दरः, पुं, (मन्द् + बाहुलकात् अरः ।) मन्थ- शैलः । (यथा, महाभारते । १ । १८ । १३ । “मन्थानं मन्दरं कृत्वा तथा नेत्रञ्च वासु- किम् ॥”) मन्दारपादपः । इति मेदिनी । रे, १९६ ॥ स्वर्गः । हारभेदः । इति हेमचन्द्रः । ४ । ९६ ॥ मुकुरः । इति शब्दरत्नावली ॥ (कुशद्बीपस्थ- पर्व्वतविशेषः । यथा, मात्स्ये । १२१ । ६१ । “मन्दरः सैव विज्ञेयः सर्व्वधातुमयः शुभः । मन्द इत्येष यो धातुरपामर्थे प्रकाशकः ॥ अपां विदारणात् चैव मन्दरः स निगद्यते ॥”)

मन्दरः, त्रि, (मन्द् + अरः ।) बहलः । मन्दः । इति मेदिनी । रे, १९६ ॥

"https://sa.wiktionary.org/w/index.php?title=मन्दरः&oldid=156242" इत्यस्माद् प्रतिप्राप्तम्