सामग्री पर जाएँ

मन्दाक्षम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मन्दाक्षम्, क्ली, (मन्दे सङ्कुचिते अक्षिणी नेत्रे यस्मात् । “अक्ष्णोऽदर्शनात् ।” ४ । ४ । ७६ । इति समा- सान्तः अच् ।) लज्जा । इत्यमरः । १ । ७ । २३ ॥ (यथा, नैषधचरिते । ३ । ६१ । “मन्दाक्षमन्दाक्षरमुद्रमुक्त्वा तस्यां समाकुञ्चितवाचि हंसः । तच्छंसिते किञ्चन संशयालु- र्गिरा मुखाम्भोजमयं युयोज ॥”)

"https://sa.wiktionary.org/w/index.php?title=मन्दाक्षम्&oldid=156253" इत्यस्माद् प्रतिप्राप्तम्