सामग्री पर जाएँ

मन्दाग्नि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मन्दाग्निः, पुं, (मन्दः पाचनासमर्थश्चासावग्नि- श्चेति ।) कफद्वाराल्पजठरानलः । तस्य निदा- नादि यथा, -- “मन्दस्तीक्ष्णोऽथ विषमः समश्चेति चतुर्व्विधः । कफपित्तानिलाधिक्यात्तत्साम्याज्जाठरोऽनलः ॥ विषमो वातजान् रोगांस्तीक्ष्णः पित्तसमुन्न- तान् । करोत्यग्निस्तथा मन्दो विकारान् कफसम्भवान् ॥ समा समाग्नेरशिता मात्रा सम्यग्विपच्यते । अल्पापि नैव मन्दाग्नेर्विषमाग्नेस्तु देहिनः । कदाचित् पच्यते सम्यक् कदाचिच्च न पच्यते ॥” इति माधवकरः ॥ * ॥ तस्यौषधं यथा, -- निम्बुरसादिकं दत्त्वा गुटिकामप्येके कुर्व्वन्ति ॥ ६ ॥ टङ्गणं रसगन्धौ च समं भागं त्रयं विषात् । कपर्द्दः सर्ज्जिकाक्षारो मागधी विश्वभेषजम् ॥ पृथक् पृथक् कर्षमात्रं वसुभागमिहोषणम् । जम्बीराम्लैर्दिनं घृष्टं भवेदग्निकुमारकः ॥ विशुचीशूलवातादिवह्निमान्द्यप्रशान्तये ॥” क्षारो यवक्षारः । अग्निकुमारो रसो विशु- च्याद्यजीर्णे ॥ ७ ॥ “पारदामृतलवङ्गगन्धकं भागयुग्ममरिचेन मिश्रितम् । तत्र जातिफलमर्द्धभागिकं तिन्तिडीफलरसेन मर्द्दितम् ॥ वह्रिमान्द्यदशवक्त्रनाशनो रामबाण इति विश्रुतो रसः । संग्रहग्रहणिकुम्भकर्णकं सामवातखरदूषणञ्जयेत् ॥ दीयते तु चणकानुमानतः सद्य एव जठराग्निदीपनः । रोचकः कफकुलान्तकारकः श्वासकासवमिजन्तुनाशनः ॥” ८ ॥ पारदभागः १ विषभागः १ लवङ्गभागः १ गन्धकभागः १ मरिचभागः २ जातीफलभागः ॥ ० । रामबाणो रसोऽजीर्णे । इति भाव- प्रकाशः ॥ (विवरणमस्य यथा, -- “अग्निश्चतुर्व्विधः प्रोक्तः समो विषमतीक्ष्णकः । मन्दस्तदापरः प्रोक्तः शृणु चिह्रानि साम्प्रतम् ॥ वातपित्तकफे साम्यात् समत्वं जायतेऽनलः । तैरेव विषमं प्राप्ते विषमो जायतेऽनलः ॥ तीक्ष्णः पित्ताधिकत्वेन जायते जठराग्निकः । वातश्लेष्माधिकत्वेन जायते मन्दसंज्ञकः ॥” इति हारीते चिकित्सितस्थाने षष्ठेऽध्याये ॥ “अन्नमण्डं पिबेदुष्णं हिङ्गुसौवर्च्चलान्वितम् । विषमोऽपि समस्तेन मन्दो दीप्येत पावकः ॥” “सिन्धूत्थहिङ्गुत्रिफलायमानी- व्योषैर्गुडांशैर्गुडिकां प्रकुर्य्यात् । तैर्भक्षितैस्तृप्तिमवाप्नुवन्ना भुञ्जीत मन्दाग्निरपि प्रभूतम् ॥” इति वैद्यकचक्रपाणिसंग्रहेऽग्निमान्द्याधिकारे ॥ मन्दः अग्निर्यस्येति । अल्पाग्निविशिष्टे, त्रि । यथा, मार्कण्डेये । १५ । १३९ । “सोऽजीर्णव्याधिदुःखार्त्तो मन्दाग्निः संप्र- जायते । परनिन्दा कृतघ्नत्वं परमर्म्मावघट्टनम् ॥”)

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मन्दाग्नि¦ पु॰ मन्दः पचने अल्पशक्तिकः अग्निः अनलः,स यस्माह्रा।

१ देहस्थे अपचनशक्तिकेऽनले

२ तद्धेतौरीगभेदे च। तन्निदानादि यथा
“मन्दस्तीक्ष्णोऽथविषमः समश्चेति चतुर्विधः। कफपित्तानिलाधिक्यात्तत्साम्याज्जाठरोऽनलः। विषमो वातजान् रोगान्तीक्ष्णः पित्तसमुन्नतान्। करोत्यग्निस्तथा मन्दो विका-रान् कफसम्भवान्। समा समाग्नेरशिता मात्रा सम्यग्विपच्यते। अल्पापि नैव मन्दाग्नेर्विषमाग्नेस्तु देहिनः” भावप्र॰।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मन्दाग्नि¦ m. (-ग्नि) Weakness of digestion.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मन्दाग्नि/ मन्दा mfn. having weak digestion , dyspeptic Katha1s. Ma1rkP.

मन्दाग्नि/ मन्दा m. slowness of digestion Sus3r.

"https://sa.wiktionary.org/w/index.php?title=मन्दाग्नि&oldid=326883" इत्यस्माद् प्रतिप्राप्तम्