मन्द्रः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मन्द्रः, पुं, (मन्द्यते बुध्यते अनेन । मदि + “स्फायि- तञ्चीति ।” उणा० २ । १३ । इति रक् ।) गम्भीरध्वनिः । इत्यमरः । १ । ७ । २ ॥ (यथा, मेघदूते । १०० । “मन्द्रस्निग्धैर्ध्वनिभिरबलावेणिमोक्षोत्- सुकानि ॥”) वाद्यविशेषः । तत्पर्य्यायः । मड्डः २ मृदङ्गकः ३ । इति शब्दरत्नावली ॥ (त्रि, हृष्टः । यथा, ऋग्वेदे । १ । ५ । ७ । “होता मन्द्रो वरेण्यः ॥” “मन्द्रो हृष्टः ।” इति तद्भाष्ये सायनः ॥ मादनशीलः । यथा, ऋग्वेदे । १ । १४४ । ७ । “अग्ने ! जुवस्व प्रतिहर्य्यतद्वचो मन्द्र स्वधावऋतजात सुक्रतो ॥” “मन्द्र ! मादनशील ! ।” इति तद्भाष्ये सायनः ॥)
