मन्मथः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मन्मथः, पुं, (मनो मथ्नाति विकरोतीति । मन्थ् + पचाद्यच् । पृषोदरादित्वात् साधुः । अस्य नामनिरुक्तिर्यथा, ब्रह्मवैवर्त्ते । १ । ४ । ७ । “मनो मथ्नाति सर्व्वेषां पञ्चबाणेन कामिनाम् । तन्नाम मन्मथस्तेन प्रवदन्ति मनीषिणः ॥”) कामदेवः । (यथा, नैषधचरिते । ८ । २९ । “न मन्मथस्त्वं स हि नास्तिमूर्त्तिः ॥”) कपित्थवृक्षः । इत्यमरः । १ । ४ । २१ ॥ काम- चिन्ता । इति मेदिनी । थे, २२ ॥ * ॥ काम- देवस्योत्पत्तिर्यथा, -- मार्कण्डेय उवाच । “ततस्ते मुनयः सर्व्वे तदभिप्रायवेदिनः । चक्रुस्तदुचितं नाम मरीच्यत्रिमुखास्तदा ॥ मुखावलोकनादेव ज्ञात्वा वृत्तान्तमन्यतः । दक्षादयश्च स्रष्टारः स्थानं पत्नीञ्च ते ददुः ॥ ततो निश्चित्य नामानि मरीचिप्रमुखा द्बिजाः । ऊचुः सङ्गतमेतस्मै पुरुषाय द्बिजोत्तमाः ॥ ऋषय ऊचुः । यस्मात् प्रमथ्य चेतस्त्वं जातोऽस्माकं तथा विधेः । तस्मान्मन्मथनान्मा त्वं लोके गेयो भविष्यसि ॥ जगत्सु कामरूपस्त्वं त्वत्समो न हि विद्यते । अतस्त्वं कामनाम्नापि ख्यातो भव मनोभव ! ॥ मदनान्मदनाख्यस्त्वं शम्भोर्दर्पात् सदर्पकः । तथा कन्दर्पनाम्नापि लोके ख्यातो भविष्यसि ॥ त्वदाशुगानां यद्बीर्य्यं तद्वीर्य्यं न भविष्यति । वैष्णवानाञ्च रौद्राणां ब्रह्मास्त्राणाञ्च तादृशम् ॥ स्वर्गो मर्त्यश्च पातालं ब्रह्मलोकः सनातनः । अवस्थानानि सर्व्वाणि सर्व्वव्यापी भवान् यतः ॥ किंवा चापि विशेषेण सामान्ये नास्ति ते समः । यत्र यत्र भवेत् प्राणी शाद्बलास्तरवोऽथवा ॥ तत्र तत्र तव स्थानमस्त्वाब्रह्मसदोदयम् । दक्षोऽयं भवतः पत्नीं स्वयं दास्यति शोभ- नाम् ॥” इति कालिकापुराणे २ अध्यायः ॥
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मन्मथः [manmathḥ], 1 Cupid, the god of love; मन्मथो मां मथ्नन्निज- नाम सान्वयं करोति Dk.1; Me.75; न मन्मथस्त्वं स हि नास्ति- मूर्तिः N. 8.29.
Love, passion; प्रबोध्यते सुप्त इवाद्य मान्मथः Ṛs.1.8; so परोक्षमन्मथः जनः Ś.2.19.
The wood apple.
N. of a संवत्सर. -था N. of Dākṣāyaṇī.-a. Enchanting, attractive; साक्षान्मन्मथमन्मथः Bhāg. 1.32.2. -Comp. -आनन्दः a kind of mango tree.
आलयः the mango tree.
pudendum muliebre.-कर a. exciting love. -बन्धुः the moon. -युद्धम् amorous strife, sexual union, copulation. -लेखः a love letter; क्लान्तो मन्मथलेख एष नलिनीपत्रे नखैरर्पितः Ś.3.26.
