मन्युः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मन्युः, पुं, (मन्यते ज्ञायतेऽसौ । मन + “यजिमनि- शुन्धिदसिजनिभ्यो युच् ।” उणा० ३ । २० । इति युच् ।) शोकः । (यथा, भट्टिकाव्ये । ६ । ३० । “मन्युर्म्मन्ये ममास्तम्भीद्बिषादोऽस्तभदुद्य- तिम् ॥”) दैन्यम् । क्रतुः । (यथा, राजतरङ्गिण्याम् । १ । १७४ । “आविर्बभूवाभिमन्युः शतमन्युरिवापरः ॥”) क्रोधः । इत्यमरः । ३ । ३ । १५३ ॥ (यथा, महाभारते । १ । ७९ । ५ । “यः सन्धारयते मन्युं योऽतिवादांस्तितिक्षते । यश्च तप्तो न तपति दृढं सोऽर्थस्य भाजनम् ॥”) अहङ्कारः । इति शब्दरत्नावली ॥ (क्रोधाभि- मानिदेवः । यथा, ऋग्वेदे । १० । ८३ । १ । “यस्ते मन्यो ! विधद्वज्र सायक सह ओजः पुष्यति विश्वमानुषक् ॥” वितथपुत्त्रः । यथा, भागवते । ९ । २१ । १ । “वितथस्य सुतान् मन्योर्बृहत्क्षत्त्रो जय- स्ततः ॥” रुद्रदेवः । यथा, भागवते । ४ । ५ । ५ । “आज्ञप्त एव कुपितेन मन्युना स देवदेवं परिचक्रमे विभुम् ॥”)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मन्युः [manyuḥ], [मन्-युच् Uṇ.3.2]
Anger, wrath, resentment, indignation, rage; बाहुप्रतिष्टम्भविवृद्धमन्युः R.2.32, 49;11.46; नियमितमनोमन्युर्दृष्टा मया रुदती प्रिया Nāg.2.6.
Grief, sorrow, affliction, distress; निकृन्तन्मर्माणि क्रकच इव मन्युर्विरमति U.4.3; Ki.1.35; यास्यन् सुतस्तप्स्यति मां सुमन्युम् Bk.1.23; also 3.49.
Wretched or miserable state, meanness.
A sacrifice; प्रसहेत रणे तवानुजान् द्विषतां कः शतमन्युतेजसः Ki.2.23.
Spirit, mettle, courage (as of horses).
Ardour, zeal.
Pride.
An epithet of Śiva.
Of Agni. -Comp. -सूक्तम् the hymns of Manyu (Ṛv.1.83 and 84).
