सामग्री पर जाएँ

मयः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मयः, पुं, (मयते द्रुतं गच्छतीति । मय् + पचाद्य- च् ।) उष्ट्रः । इत्यमरः । २ । ९ । ७५ ॥ अश्वतरः । दानवविशेषः । स तु दैत्यानां शिल्पी । इति मेदिनी । ये, ४४ ॥ (अयं हि युधिष्ठिरस्य राज्ञः सभां विरचितवान् । यथा, शिशुपाल- वधे । १३ । ५० । “उपनीय बिन्दुसरसो मयेन या मणिदारुचारु किल वार्षपर्व्वणम् । विदधेऽवधूतसुरसद्मसम्पदं समुपासदत् सपदि संसदं स ताम् ॥”) तस्य सप्तापत्यानि यथा, वह्निपुराणे । “मयस्य जाता हेमायां पुत्त्राः सप्त महाबलाः । मायावी दुन्दुभिश्चैव वृषश्च महिषस्तथा । बालिका वज्रकन्या च कन्या मन्दोदरी तथा ॥” (सुखम् । त्रि, गन्ता । यथा, वाजसनेयसंहि- तायाम् । २२ । १९ । “हयोऽस्यत्योऽसि मयोऽस्यर्व्वासि ।” “मयोऽसि मयते गच्छति मयः मय गतौ पचाद्यच् । यद्वा मय इति सुखनाम सुखरूपोऽसि ।” इति तद्भाष्ये महीधरः ॥)

"https://sa.wiktionary.org/w/index.php?title=मयः&oldid=156310" इत्यस्माद् प्रतिप्राप्तम्