सामग्री पर जाएँ

मयूरकम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मयूरकम्, क्ली, (मयूरः मयूरग्रीवेव प्रतिकृतिरिति । मयूर + “इवे प्रतिकृतौ ।” ५ । ३ । ९६ । इति कन् । अस्य मयूरकण्ठकान्तितुल्यद्युतित्वा- त्तथात्वम् ।) अञ्जनविशेषः । तुतिया इति भाषा । तत्पर्य्यायः । तुत्थाञ्जनम् २ शिखिग्रीवम् ३ वितुन्नकम् ४ । इत्यमरः । २ । ९ । १०१ ॥ (यथा, भावप्रकाशे । १ । “तुल्यं वितुन्नकं चापि शिखिग्रीवं मयूरकम् ॥”)

"https://sa.wiktionary.org/w/index.php?title=मयूरकम्&oldid=156328" इत्यस्माद् प्रतिप्राप्तम्