मरालः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मरालः, पुं, (मृ + आलच् ।) राजहंसः । इति जटाधरः ॥ (यथा, नैषधे । ६ । ७२ । “भैमीसमीपे स निरीक्ष्य यत्र ताम्बूलजाम्बूनदहंसलक्ष्मीम् । कृतप्रियादूत्यमहोपकार- मरालमोहद्रढिमानमूहे ॥”) कज्जलम् । कारण्डवः । तुरङ्गमः । वारिवाहः । दाडिमीविपिनम् । खलः । इति सारस्वतः ॥ मसृणे, त्रि । इति त्रिकाण्डशेषः ॥
