सामग्री पर जाएँ

मरीचिः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मरीचिः, पुं, (म्रियते पापराशिर्यस्मिन्निति । मृ + “मृकणिभ्यामीचिः ।” उणा० ४ । ७० । इति ईचिः । तपःप्रभावादस्य तथात्वम् ।) मुनिविशेषः । स तु ब्रह्मणो ज्येष्ठमानसपुत्त्रः । अस्य भार्य्या कर्द्दममुनिकन्या कला, पुत्त्रः कश्यपः पूर्णिमासश्च । इति श्रीभागवतम् ॥ (अस्य भार्य्या सम्भूतिरिति नाम्नापि ख्याता । यथा, मार्कण्डेये । ५२ । १९ । “पत्नी मरीचेः सम्भूतिः पौर्णमासमसूयत ॥”) कृपणः । इति हेमचन्द्रः ॥ (दनुपुत्त्रः । यथा, हरिवंशे । ३ । ८२ । “मरीचिर्मघवांश्चैव इरा शङ्कुशिरा वृकः ॥” मरुद्गणानामन्यतमः । यथा, श्रीभगवद्गीता- याम् । १० । २१ । “मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी ॥” प्रियव्रतवंशीयस्य सम्राजः पुत्त्रः । यथा, श्रीमद्भा- गवते । ५ । १५ । १४ -- १५ । “चित्ररथा- दूर्णायां सम्राडजनिष्ट । ततः उत्कलायां मरीचिर्मरीचेर्बिन्दुमत्यां बिन्दुमानुदपद्यत । तस्मात् सरघायां मधुनामाभवत् ॥”)

मरीचिः, पुं, स्त्री, (म्रियन्ते नश्यन्ति क्षुद्रजन्तव- स्तमांसि वानेन । मृ + ईचिः ।) किरणः । इत्य- मरः । १ । ४ । ३३ ॥ (यथा, रघौ । १३ । ४ । “गर्भं दधत्यर्कमरीचयोऽस्माद् विवृद्धिमत्राश्नुवते वसूनि ॥” यथा च । “मरीचीनसतो मेघान् मेघान् वाप्यसतोऽम्बरे । विद्युतो वा विना मेघैः पश्यन् मरणमृच्छति ॥” इति चरके इन्द्रियस्थाने चतुर्थेऽध्याये ॥) षट्त्र्यसरेणुपरिमाणम् । इति वैद्यकपरिभाषा ॥ (स्त्री, म्रियन्ते इव देवा यद्दर्शनादिति । मृ + ईचिः । अप्सरोविशेषः । यथा, महा- भारते । १ । १२३ । ५९ । “मरीचिः शुचिका चैव विद्युद्वर्णा तिलोत्तमा । अम्बिका लक्षणा क्षेमा देवी रम्भा मनोरमा ॥” म्रियते वारिभ्रमेण जीवा यस्याः । मृ + अपा- दाने ईचिः । मरीचिका । यथा, कथासरित्- सागरे । ५७ । ९१ । “वेश्याप्रेमणि सद्भावो यदस्मिन् बुध्यते त्वया । सत्यंभवति किं जातु जलं मरुमरीचिषु ॥”)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मरीचिः [marīciḥ], (Rarely मरीची also) m. f. [मृ-ईचि Uṇ.4.7]

A ray of light; न चन्द्रमरीचयः V.3.1; सवितुर्मरीचिभिः Ṛs.1.16; R.9.13;13.4.

A particle of light.

Light.

Mirage.

A spark of fire; मरीच्य इव निष्पेतु- रग्नेर्धूमाकुलार्चिषः Rām.1.56.18.

चिः N. of a Prajāpati, one of the ten patriarchs created by the first Manu, or one of the ten mindborn sons of Brahman; he was father of Kaśyapa.

N. of a lawgiver.

N. of Kṛiṣṇa.

A miser. -Comp. -गर्भ a. containing particles of light (N. of a world). -तोयम् a mirage; मरीचितोयान्यभिधावति क्वचित् Bhāg.5.13.5. -प a. drinking in particles of light; वैखानसा वालखिल्याः संप्रक्षाला मरीचिपाः (तापसाः) Rām.3.6.2. -मालिन् a. encircled by rays, radiant, shining. (-m.) the sun.

"https://sa.wiktionary.org/w/index.php?title=मरीचिः&oldid=328727" इत्यस्माद् प्रतिप्राप्तम्