सामग्री पर जाएँ

मरुत्पुत्त्रः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मरुत्पुत्त्रः, पुं, (मरुतो वायोः पुत्त्रः ।) भीमसेनः । इति हेमचन्द्रः । ७०७ ॥ (अस्य मरुत्पुत्त्रत्वे विवरणम् । यथा । पुरा किल पाण्डुर्नाम महीपतिर्मृगयार्थं वनं गत्वा ब्राह्मणमेकं मृग- रूपधारिणं हरिण्यां रममाणं काममोहितं जघान । ततस्तेनाभिशप्तो निजपत्न्यो रन्तुमसौ न शक्तः । अथ गच्छति काले कुन्ती पुत्त्र- कामस्य स्वभर्त्तुः पाण्डुराजस्यानुज्ञया इन्द्रादीन् देवानाहूय तैरन्वरंसीत् । तेषां मरुतो भीम- सेनो जात इति पौराणिकी वार्त्तात्रानुसन्धेया । अस्य विशेषस्तु महाभारते । १ । ११८ -- १२३ । अध्यायेषु द्रष्टव्यः ॥) हनूमांश्च ॥

"https://sa.wiktionary.org/w/index.php?title=मरुत्पुत्त्रः&oldid=156402" इत्यस्माद् प्रतिप्राप्तम्