मरुवः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मरुवः, पुं, (मरुं निर्ज्जलदेशं वाति प्राप्नोतीति । वा + कः ।) वृक्षविशेषः । मरुया इति नाग- दाना इति च भाषा ॥ तत्पर्य्यायः । खरपत्रः २ गन्धपत्रः ३ फणिज्झकः ४ बहुवीर्य्यः ५ शीतलकः ६ सुराह्वः ७ समीरणः ८ जम्बीरः ९ प्रस्थकुसुमः १० मरुवकः ११ आजन्मसुरभि- पत्रः १२ मरिचः १३ । अस्य गुणाः । कटुत्वम् । तिक्तत्वम् । उष्णत्वम् । कृमिकुष्ठविड्बन्धाध्मान- शूलमान्द्यत्वग्दोषनाशित्वञ्च । इति राज- निर्घण्टः ॥ अपि च । “मरुत्तको मरुवको मरुन्मरुरपि स्मृतः । फणी फणिज्झकश्चापि प्रस्थपुष्पः समीरणः ॥ मरुदग्निप्रदो हृद्यस्तिक्तोष्णः पित्तलो लघुः । बृश्चिकादिविषश्लेष्मवातकुष्ठकृमिप्रणुत् । कटुपाकरसो रुच्यस्तिक्तो रूक्षः सुगन्धिकः ॥” इति भावप्रकाशः ॥
