सामग्री पर जाएँ

मर्कः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मर्कः, पुं, (मर्च्चति चेष्टते इति । मर्च्च् + “इण् भीकापाशल्यतिमर्च्चिभ्यः कन् ।” उणा० ३ । ४३ । इति कन् । यद्वा, मर्कति सर्पतीति । मर्क + अच् ।) देहः । वायुः । इत्युणादिकोषः ॥ (शुक्रपुत्त्रः । यथा, वाजसनेयसंहितायाम् । ७ । १६ । “उपयामगृहीतोऽसि मर्काय त्वा ॥” “मर्कः शुक्रपुत्त्रोऽसुरपुरोहितः ।” इति तद्भाष्ये महीधरः ॥) वानरः । इति शब्दरत्नावली ॥ (यथा, श्रीमद्भागवते । १० । ८ । २९ । “मर्कान् भोक्ष्यन् विभजति स चेन्नात्ति भाण्डं भिनत्ति ॥” “मर्कान् मर्कटान् ।” इति तट्टीकायां श्रीधर- स्वामी ॥ त्रि, मार्ज्जयिता । यथा, ऋग्वेदे । १० । २७ । २० । “सूरश्च मर्क उपरो बभूवान् ॥” “मर्को मार्ज्जयिता ।” इति तद्भाष्ये सायनः ॥)

"https://sa.wiktionary.org/w/index.php?title=मर्कः&oldid=156452" इत्यस्माद् प्रतिप्राप्तम्